पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अरण्यकाण्डे

तदेव रामेण निशम्य भाषितं कृता मतिस्तस्य बिलप्रवेशने ।
बिलं च रामेण बलेन रक्षसा प्रवेश्यमानेन वनं विनादितम् ।।
प्रहृष्टरूपाविव रामलक्ष्मणो विराधमुन प्रदरे निखाय तम् ।
ननन्दतुतिभयौ महावने शिलाभिरन्तर्दधतुश्च राक्षसम् ।
सतस्तु तौ कार्मुकखड्गधारिणौ निहत्य रक्षः परिगृह्य मैथिलीम् ।
विजलतुस्तौ मुदितौ महावने दिवि स्थितौ चन्द्रदिवाकराविव ॥

हत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायां अरण्यकाण्डे विराधनिखननं नाम चतुर्थः सर्गः ३२ पञ्चमः सर्गः शरभङ्गब्रह्मलोकप्रस्थानम्

हत्वा तु तं भीमबलं विराधं राक्षसं वने । ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान् ।।
अभवीलक्ष्मणं रामो भ्रातरं दीसतेजसम् । कष्ट वनमिदं दुर्ग न च स्म वनगोचराः ।।
अभिगच्छामहे शीघं शरभङ्गं तपोधनम् । आश्रमं शरभङ्गस्य राघवोऽभिजगामह ॥
तस्य देवप्रभावस्य तपसा भावितात्मनः । समीपे शरभङ्गस्य ददर्श महदद्भुतम् ।।
विभ्राजमानं वपुषा सूर्यवैश्वानरोपमम् । अवरुह्य रथोत्सङ्गात्सकाशे विबुधानुगम् ॥
असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम् । सुप्रमाभरणं देवं विरजोऽम्बरधारिणम् ।।
तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः । हरिभिर्वाजिभियुक्तमन्तरिक्षगतं रथम् ।।
ददर्शादूरतस्तस्य तरुणादित्यसंनिभम् । पाण्डरानधनप्रख्यं चन्द्रमण्डलसंनिभम् ।।
अपश्यद्विमलं छत्रं चित्रमाल्योपशोभितम् । चामरन्य जने चाये रुक्मदण्डे महाधने ॥
गृहीते वरनारीभ्यां धूयमाने च मूर्धनि । गन्धर्वामरसिद्धाश्च बहवः परमर्षयः ।।
अन्तरिक्षगतं देवं वाग्भिरग्र्याभिरीडिरे । सह संभाषमाणे तु शरभङ्गेण वासवे ।।
दृष्टा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत् । रामोऽथ रथमुद्दिश्य लक्ष्मणाय प्रदर्शयन् ॥
अर्चिष्मन्तं श्रिया जुष्टमद्भुतं पश्य लक्ष्मण । प्रतपन्तमिवादित्यमन्तरिक्षगतं रथम् ॥
ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः । अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम् ।।
इमे च पुरुषव्याघ्रा ये तिष्ठन्त्यभितो रथम् । शतं शतं कुण्डलिनो युवानः खड्गपाणयः ॥