पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः .

तस्य रौद्रस्य सौमित्रिर्बाहुं सव्यं बभञ्ज ह । रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः॥
स भग्नबाहुः संविनो निपपाताशु राक्षसः । धरण्यां मेघसंकाशो वनभिन्न इवाचलः ।।
मुष्टिमिर्जानुभिः पद्भिः सूयन्तौ तु राक्षसम् । उद्यम्योद्यम्य चाप्येनं स्थण्डिले निष्पिपेषतुः ।।
स विद्धो बहुभिर्बाणैः खड्गाभ्यां च परिक्षतः । निष्पिष्टो बहुधा भूमौ न ममार स राक्षसः ॥ ८
तं प्रेक्ष्य रामः सुभृशमवध्यमचलोपमम् । भयेष्वभयदः श्रीमानिदं वचनमब्रवीत् ।।
तपसा पुरुषव्याघ्र राक्षसोऽयं न शक्यते । शलेण युधि निर्जेतुं राक्षसं निखनावहे ।।
कुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण । वनेऽस्मिन् सुमहच्छुभ्र खन्यतां रौद्रकर्मणः ।। ११
इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति । तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान् ॥ १२
तच्छ्रुत्वा राघवेणोक्तं राक्षसः प्रश्रितं वचः । इदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम् ।।
हतोऽहं पुरुपव्याघ्र शक्रतुल्यबलेन वै । मया तु पूर्व त्वं मोहान्न ज्ञातः पुरुषर्षभ । १४
कौसल्या सुप्रजा तात रामस्त्वं विदितो मया । वैदेही च महाभागा लक्ष्मणश्च महायशाः ॥ १५
अभिशापादहं घोरां प्रविष्टो राक्षसी तनुम् । तुम्बुमर्नाम गन्धर्वः शप्तो वैश्रवणेन ह ।। १६
प्रसाद्यमानश्च मया सोऽनवीन्मां महायशाः । यदा दाशरथी रामम्त्वां वधियति संयुगे ।
तदा प्रकृतिमापन्नो भवान स्वर्ग गमिष्यनि । इति वैश्रवणो राजा रम्भासक्तं पुरानघ ।। १८
अनुपन्थीयमानो मां मंक्रुद्धो व्याजहार ह । तव प्रमादान्मुक्तोऽहमभिशापात् सुदारुणात् ।। १९
भुवनं म्वं गमिष्यामि स्वस्ति वोऽस्तु परंतप । इतो वमति धर्मात्मा शरभङ्गः प्रतापवान् ।।
अध्यधयोजने तात महर्षिः सूर्यसंनिभः । तं क्षिप्रमभिगच्छ त्वं स ते श्रेयो विधास्यति ।। २१
अवटे चापि मां राम प्रक्षिप्य कुशली बज । रक्षसां गतमत्त्वानामेष धर्मः सनातनः ।।
अवटे ये निधीयन्ते तेषां लोकाः सनातनाः । एवमुक्त्वा तु काकुत्थं विराधः शरपीडितः॥ २३
बभूव स्वर्गतिं प्राप्तो न्यस्तदेहो महाबलः । तच्छ्रुत्वा राघवो वाक्यं लक्ष्मणं व्यादिदेश ह ।। २४
ततः खनित्रमादाय लक्ष्मणः श्वभ्रमुत्तमम् । अखनत् पार्श्वतस्तस्य विराधस्य महात्मनः ।
तं मुक्तकण्ठं निष्पिष्य शकुकर्ण महास्वनम । विराधं प्राक्षिपच्छुभ्रे नदन्तं भैरवस्वनम् ॥
२६
तमाहवे निर्जितमाशुविक्रमौ स्थिरावुभौ संयति रामलक्ष्मणौ ।
मुदान्वितौ चिक्षिपतुर्भयावहं नदन्तमुक्षिप्य बिले तु राक्षसम् ।।
अवध्यतां प्रेक्ष्य महासुरस्य तो शितेन शस्त्रेण तदा नरर्षभौ ।
समर्थ्य चात्यविशारदावुभौ बिले विराधस्य वधं प्रचक्रतुः ॥
स्वयं विराधेन हि मृत्युमात्मनः प्रसह्य रामेण वधार्थमीप्सितः ।
निवेदितः काननचारिणा खयं न मे वधः शस्त्रकृतो भवेदिति ॥