पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः सर्गः ३०५

विस्तीर्णविपुलोरस्काः परिघायतबाहवः । शोणांशुवसनाः सर्वे व्याघ्रा इव दुरासदाः॥
उरोदेशेषु सर्वेषां हारा ज्वलनसनिभाः । रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम ।।
एतद्धि किल देवानां वयो भवति नित्यदा । यथेमे पुरुषव्याघ्र दृश्यन्ते प्रियदर्शनाः ।। १८
इहैव सह वैदेह्या मुहूर्त तिष्ट लक्ष्मण । यावजानाम्यहं व्यक्त क एप घुतिमान् ग्थे । १९
तमेवमुक्त्वा सौमित्रिमिहैव स्थीयतामिति । अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति ।
ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः । शरभङ्गमनुज्ञाप्य विवुधानिदमनवीन् ।।
इहोपयात्यसौ रामो यावन्मां नाभिभाषते । निष्ठं नयत तावत्तु ततो मां द्रष्टुमर्हति ।। २२
जितवन्तं कृतार्थं च द्रष्टाहमचिगदिमम् । कर्म ह्यनेन कर्तव्यं महदन्यैः सुदुष्करम ।। २३
निष्पादयित्वा तत् कर्म ततो मां द्रष्टुमर्हति । अथ वजी तमामन्त्र्य मानयिन्या च तापसम् ।। २४
ग्थेन हरियुक्तेन ययौ दिवमरिंदमः । प्रयाते तु सहस्राक्षे राघवः सपरिच्छदे ।।
अग्निहोत्रमुपासीनं शरभङ्गमुपागमत । तस्य पादौ च संगृह्य रामः सीना च लक्ष्मणः ।। २६
निषेदुः ममनुज्ञाता लब्धवासा निमन्त्रिताः । ततः शक्रोपयानं तु पर्यपृच्छन स राधवः ।। २७
शरभङ्गश्च तत्मवं गघवाय न्यवेदयत् । मामेष वरदो राम ब्रह्मलोकं निनीपति ॥
२८
जितमुपेण तपमा दुष्प्रापमकृतात्मभिः । अहं ज्ञात्वा नरव्याघ्र वर्तमानमदूरतः ।।
ब्रह्मलोकं न गच्छामि त्वामहष्ट्रा प्रियातिथिम । त्वयाहं पुरुपव्याघ्र धार्मिकेण महात्मना।। ३०
समागम्य गमिष्यामि त्रिदिवं देवसेवितम् । अक्षया नग्शार्दूल मया लोका जिनाः शुभाः ।। ३१
ब्राह्मयाश्च नाकपृष्ठयाश्च प्रतिगृह्णीष्व मामकान । एवमुक्तो नरव्याघ्रः सर्वशास्त्रविशारदः।। ३२
ऋषिणा शरभङ्गेण राघवो वाक्यमत्रवीत । अहमेवाहरिष्यामि सर्वलोकान महामुने । ३३
आवास त्वमिच्छामि प्रदिष्टमिह कानने । राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै ।।
शरभङ्गो महाप्रामः पुनरेवानवीद्वचः । इह राम हातेजाः सुतीक्ष्णो नाम धार्मिकः ॥
वसत्यरण्ये धर्मात्मा स ते वासं विधास्यति । सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम् ।। ३६
रमणीये वनोद्देशे स ते वास विधास्यति । इमां मन्दाकिनीं राम प्रतिस्रोतामनुब्रज ।।
नदी पुष्पोडुपवहां तत्र तत्र गमिष्यसि । एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम् ॥ ३८
यावहामि गात्राणि जीर्णां त्वचमिवोरगः । नतोऽग्निं सुसमाधाय हुत्वा चाज्येन मन्त्रवित् ।। ३९
शरभङ्गो महातेजाः प्रविवेश हुताशनम् । तस्य रोमाणि केशांश्च ददाहामिमहात्मनः ।।
जीर्णां त्वचं तथास्थीनि यच्च मांसं सशोणितम् । रामस्तु विस्मितो भ्रात्रा भार्यया च सहात्मवान् ॥४१
स च पावकसंकाशः कुमारः समपद्यत । उन्थायामिचयात्तस्माच्छरभङ्गो व्यरोचत ।