पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥श्रीः॥ ॥ श्रीमद्वाल्मीकिरामायणम् ॥ ॥ अथ अरण्यकाण्डः॥ प्रथमः सर्गः महर्षिसङ्गः

प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान् । ददर्श रामो दुर्धर्षस्तापमाश्रममण्डलम् ॥
कुशचीरपरिक्षिप्तं ब्राह्मथा लक्ष्म्या समावृतम् । यथा प्रदीप्तं दुर्दर्शं गगने सूर्यमण्डलम् ।।
शरण्यं सर्वभूतानां सुसंमृष्टाजिरं सदा । मृगैबहुभिराकीर्ण पक्षिसकैः समावृतम् ॥ ३
पूजितं चोपनृत्तं च नित्यमप्सरसां गणैः। विशालेरमिशरणैः स्मुग्भाण्डैरजिनैः कुशैः ॥
समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम् । आरण्येश्च महावृक्षैः पुण्यैः स्वादुफलैर्युतम् ।।
बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम । पुष्पैर्वन्यैः परिक्षिप्त पश्निन्या च सपद्मया ।।
फलमूलाशनैर्दान्तश्चीरकृष्णाजिनाम्बरैः । सूर्यवैश्वानराभेश्च पुराणैर्मुनिभिर्वृतम् ।।
पुण्यैश्च नियताहारैः शोभितं परमर्षिभिः । तद्ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम् ॥
ब्रह्मविद्भिर्महामार्गाह्मणैरुपशोभितम् । तद्दृष्ट्वा राघवः श्रीमांस्तापसाश्रममण्डलम् ।।
अभ्यगच्छन्महातेजा विज्यं कृत्वा महद्धनुः । दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्रा महर्षयः ॥ १०
अभ्यगच्छंस्तथा प्रीता वैदेहीं च यशस्विनीम् । ते तं सोममिवोद्यन्तं दृष्ट्रा वै धर्मचारिणः ॥ ११
लक्ष्मणं चैव दृष्टा तु वैदेहीं च यशस्विनीम् । मङ्गलानि प्रयुञ्जानाः प्रत्यगृहन् दृढव्रताः ।।
रूपसंहननं लक्ष्मी सौकुमार्य सुवेषताम् । दशुर्विस्मिताकारा रामस्य वनवासिनः ।। १३
वैदेही लक्ष्मणं रामं नेत्रैरनिमिषैरिव । आश्चर्यभूतान् ददृशुः सर्वे ते वनचारिणः ॥
अत्रैनं हि महाभागाः सर्वभूतहिते रतम् । अतिथिं पर्णशालायां राघवं संन्यवेशयन् ।। १५
ततो रामस्य सत्कृत्य विधिना पाक्कोपमाः । आजकुस्तु महाभागाः सलिलं धर्मचारिणः ।। १६
मूलं पुष्पं फलं वन्यमाश्रमं च महात्मनः । निवेदयित्वा धर्मशास्ततः प्रचलयोऽब्रुवन् ।।
धर्मपालो जनस्यास्य शरण्यस्त्वं महायशाः । पूजनीयश्च मान्यच राजा दण्डधरो गुरुः ॥
इन्द्रस्येह चतुर्भागः प्रजा रक्षति राघव । राजा तस्माद्वरान् भोगान् भुङ्क्ते लोकनमस्कृतः ॥ १९