पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२९८ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

अलंकुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि । प्रीति जनय मे वत्से दिव्यालंकारशोमिता ॥ ११.
सा तथा समलंकृत्य सीता सुरसुतोपमा । प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ।। १२
तथा विभूषितां सीतां ददर्श वदतां वरः । राघवः प्रीतिदानेन तपस्विन्या जहर्ष च ॥ १३
न्यवेदयत्ततः सर्व सीता रामाय मैथिली । प्रीतिवानं वपरिवन्या क्सनाभरणलजाम् ।।
प्रहृष्टत्वभवद्रामो लक्ष्मणश्च महारथः । मैथिल्याः सक्रियां दृष्टा मानुषेषु सुदुर्लभाम् ॥ १५
ततस्तां शर्वरी प्रीतः पुण्यां शशिनिभाननः । अर्चितस्तापसैः सिद्धैरुवास रघुनन्दनः ।। १६
तस्यां राज्यां व्यतीतायामभिषिच्य हुतानिकान् । आपृच्छेता नरव्याघ्रौ ताफ्सान वनगोचरान् ।।१७
तावूचुरते वनचरास्तापसा धर्मचारिणः । वनस्य तस्य संचारं राक्षसैः समभिप्लुतम् ॥ १८
रक्षांसि पुरुषादीनि नानारूपाणि राघव । वसन्त्यस्मिन् महारण्ये ब्यालाश्च कधिराशनाः ।। १९
उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् । अदन्त्यस्मिन् महारण्ये तानिवारय राघव ।। २०
एष पन्था महर्षीणां फलान्याहरतां वने । अनेन तु वनं दुर्ग गन्तुं राघव ते क्षमम् ।। २१
इतीव तैः प्राञ्जलिभिस्तपस्विभिर्द्विजः कृतस्वस्त्ययनः परंतपः ।
वन सभार्यः प्रविवेश राघवः सलक्ष्मणः सूर्य इवाभ्रमण्डलम ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायाम् अयोध्याकाण्डे दण्डकारण्यप्रवेशो नाम एकोनविंशत्यधिकशततमः सर्गः २२ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डः संपूर्णः