पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३०० श्रीमद्वाल्मीकिरामायणे अरण्यकाण्डे

ते वयं भवता रक्ष्या भवद्विषयवासिनः । नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः ।।
न्यस्तदण्डा वयं राजञ्जितक्रोधा जितेन्द्रियाः । रक्षितव्यास्त्वया शश्वद्गर्भभूतास्तपोधनाः ॥
एवमुक्त्वा फलैर्मूलैः पुष्पैर्वन्यैश्च राघवम् । अन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन् ।।
तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः । न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम् ॥

इत्यार्षे श्रीमद्रामायणे वाल्मांकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायाम् अरण्यकाण्डे महर्षिसङ्गो नाम प्रथमः सर्गः द्वितीयः सर्गः विराधसंरोधः

कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति । आमन्त्र्य स मुनीन् सर्वान् वनमेवान्वगाहत ॥
नानामृगगणाकीर्ण शार्दूलकसेवितम् । ध्वस्तवृक्षलतागुल्म 'दुर्दर्शसलिलाशयम् ।।
निष्कूजनानाशकुनि झिल्लिकागणनादितम् । लक्ष्मणानुचरो रामो वनमभ्यं ददर्श ह ।। ३
वनमध्ये तु काकुत्स्थस्तस्मिन् घोरमृगायुते । ददर्श गिरिशृङ्गार्भ पुरुषादै महास्वनम् ।।
गम्भीराक्षं महावक्त्रं विकटं विषमोदरम् । बीभत्सं विषमं दीर्घ विकृतं धोरदर्शनम् ।।
वसानं चर्म वैयाघ्नं वसाई रुधिरोक्षितम् । त्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम ।। ६
श्रीन सिंहांश्चतुरो व्याघ्रान द्वौ वृषौ पृषतान् दश । सविषाणं यसादिग्धं गजस्य च शिरो महत् ।।७
अवसज्यायसे शूले विनदन्तं महास्वनम् । स रामं लक्ष्मणं चैव सीतां दृष्ट्वाथ मैथिलीम् ।।
अभ्यधावत संक्रुद्धः प्रजाः काल इवान्तकः । स कृत्वा भैरवं नादं चालयनिष मेदिनीम् ।।
अङ्घनादाय वैदेहीमपक्रम्य ततोऽब्रवीत् । युवां जटाचीरधरौ सभायौं क्षीणजीवितौ ॥
प्रविष्टौ दण्डकारण्यं शरचापसिधारिणौ । कथं तापसयोषा च वासः प्रमया सह ।। ११
अधर्मचारिणौ पापो को युवां मुनिदूषको । अहं वनमिदं दुर्ग विराधो नाम राक्षसः ।। १२
चरामि सायुधो नित्यमृषिमांसानि भक्षयन् । इयं नारी वरारोहा मम भार्या भविष्यति ।। १३
युवयोः पापयोश्चाहं पास्यामि रुधिरं मधे । तस्यैवं ब्रुवतो धृष्ट विराधस्य दुरात्मनः ।।
श्रुत्वा सगर्वित वाक्यं संभ्रान्ता जनकात्मजा । सीता प्रावेपतोद्वेगात् प्रवाते कदली यथा ॥ १५
तां दृष्ट्रा राघवः सीतां विराधागतां शुमाम् । अनवीलक्ष्मणं वाक्यं मुखेन परिशुष्यता ।। १६
पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसंभवाम् । मम भायां शुभाचागं विराधाके प्रवेशिताम् ॥ १७