पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशाधिकशततमः सर्गः २९५

सान्त्वयन्त्यब्रवीद्धृष्टा. दिष्ट्या धर्ममवेक्षसे । त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि ॥२१
अवरुद्धं बने रामं दिष्ट्या त्वमनुगच्छसि । नगरस्थो वनस्थो का शुभो वा यदि वाशुभः ॥ २२
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः । दुःशील. कामवृत्तो वा धनैर्वा परिवर्जितः ॥ २३
स्त्रीणामार्यस्वभावनां परमं दैवतं पतिः । नालो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् ।।
सर्वत्र योग्य वैदेहि तपः कृतमिवाव्ययम् । न त्वेवमवगच्छन्ति गुणदोषमसलियः॥
कामवक्तव्याहृदया भर्तृनाथाश्वरन्ति याः । प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि ॥
२६
अकार्यवशमापन्नाः लियो याः खलु तद्विधाः । त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावराः ॥
लियः स्वर्गे चरिष्यन्ति यथा धर्मकृतस्तथा ॥
तदेवमेनं त्वमनुव्रता सती पतिव्रतानां समयानुवर्तिनी ।
भव रवभर्तुः सहधर्मचारिणी यशश्च धर्म च ततः समाप्स्यसि ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे सीतापातिव्रत्यप्रशंसा नाम सप्तदशाधिकशततमः सर्गः अष्टादशाधिकशततमः सर्गः दिव्यालंकारग्रहणम्

सा त्वेवमुक्ता वैदेही त्वनसूयानसूयया । प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे । १
नैतदाश्चर्यमाया यन्मां त्वमनुभाषसे । विदितं तु मयाप्येतद्यथा नार्याः पतिर्गुरुः ॥
यद्यप्येष भवेद्भर्ता ममार्य वृत्तवर्जितः। अद्वैधमुपचर्तव्यस्तथाप्येप मया भवेत् ॥
किं पुनर्यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः । स्थिरानुरागो धर्मात्मा मातृवत् पितृवत् प्रियः ॥ ४
यां वृत्तिं वर्तते रामः कौसल्यायां महाबलः । तामेव नृपनारीणामन्यासामपि वर्तते ॥
सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः । मातृयवर्तते वीरो मानमुत्सृज्य धर्मवित् ॥
आगच्छन्त्याश्च विजनं वनमेवं भयावहम् । समाहितं मे श्वश्वा च हृदये तद्धृतं महत् ।।
पाणिग्रहणकाले च यत् पुरा त्वनिसंनिधौ । अनुशिष्टा जनन्यारिम वाक्यं तदपि मे धृतम् ।।
नवीकृतं च तत् सर्व वाक्यैस्ते धर्मचारिणि । पतिशुश्रूषणाभार्यास्तपो नान्यविधीयते ॥
सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते । तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ।।
वरिष्ठा सर्यनारीणामेषा च दिवि देवता । रोहिणी न विना चन्द्रं मुहूर्तमपि दृश्यते ॥
एवंविधाच प्रवराः स्त्रीयो भर्तृढव्रताः । देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ॥ १२