पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

ततोऽनसूया संदृष्टा श्रुत्वोक्तं सीतया वचः । शिरस्याघ्राय चोवाच मैथिली हर्षयन्त्युत ॥ १३
नियमैर्विविधैराप्तं तपो हि महदस्ति मे । तत् संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ।।
उपपलं मनोरं च वचनं तव मैथिलि । प्रीता चास्म्युचितं किं ते करवाणि प्रवीहि मे ॥ १५
तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मया । कृतमित्यप्रवीत् सीता सपोबलसमन्विताम् ॥ १६
सा त्वेवमुक्ता धर्मज्ञा तया प्रीसतराभवन् । सफल च प्रहर्ष ते हन्त सीते करोम्यहम् ।।
इदं दिव्यं वरं माल्यं वलमामरणानि च । अङ्गरागं च वैदेहि महाई चानुलेपनम् ।।
मया दत्तमिदं सीते तव गात्राणि शोभयेत् । अनुरूपमसंजिष्टं नित्यमेव भविष्यति ॥ १९
अङ्गरागेण दिव्येन लिप्साङ्गी जनकात्मजे । शोभयिष्यसि भर्तारं यथा श्रीर्विष्णुमव्ययम् ॥
सा वस्त्रमङ्गरागं च भूषणानि समस्तथा। मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ।। २१
प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी । शिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ।।
तथा सीतामुपासीनामनसूया दृढनता । वचन प्रष्टुमारेभे कथां कांचिदनुप्रियाम् ॥ २३
स्वयंवरे फिल प्राप्ता त्वमनेन यशस्विना । राघवेणेति मे सीते कथा श्रुतिमुपागता ।।
तां कथा श्रोतुमिच्छामि विस्तरेण च मैथिलि । यथानुभूतं कात्स्न्येन नन्मे त्वं वक्तुमर्हसि ।। २५
एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् । श्रृयतामिति चोक्त्वा वै कथयामास तां कथाम।।२६
मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् । क्षत्रधर्म भिरतो न्यायतः शास्ति मेदिनीम ।।
तस्य लालहस्तस्य कृषतः क्षेत्रमण्डलम् । अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता ।।
स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः । पांसुकुण्ठितसर्वाङ्गी जनको विस्मितोऽभवत् ।।
अनपत्येन च स्नेहादकमारोप्य च स्वयम् । ममेयं तनयेत्युक्त्वा स्नेहो माय निपातितः ।। ३०
अन्तरिक्षे च वागुक्ता प्रतिमा मानुषी किल । एवमेतन्नरपते धर्मेण तनया तव ।। ३१
सतः प्रहठो धर्मात्मा पिता मे मिथिलाधिपः । अवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः ॥ ३२
दत्ताचास्मीष्टवहेव्यै ज्येष्ठायै पुण्यकर्मणा । तया संभाविता चास्मि स्निग्धया मातृसौह्नदात् ॥ ३३
पतिसंयोगसुलभं वयो दृष्टा तु मे पिता । चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधनः ।। ३४
सदृशाचापकटाच लेके कन्यापिता जनात् । प्रधर्षणमवानोति शक्रेणापि समो भुवि ॥ ३५
तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिवः । चिन्तार्णवगतः पारं नाससादाप्लवो यथा ॥
अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन् । सदृशं चानुरूपं च महीपालः पतिं मम ॥ ३७
तस्य बुद्धिरियं जाता चिन्वयानस्य संततम् । स्वयंवर तनूजायाः करिष्यामीति धीमतः ।।
महायज्ञे सदा तस्य वरुणेन महात्मना । दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ॥
असंचाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् । तन्न शक्ता नमयितुं स्वमेष्वपि नराधिपाः ॥