पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२९४ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

आश्रमादृषिविरहितं प्रभुः क्षणमपि न विजहौ स राघवः।
राघवं हि सततमनुगतास्तापसाचार्षचरितधृतगुणाः ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे खरविप्रकरणकयनं नाम षोडशाधिकशततमः सर्गः सप्तदशाधिकशततमः सर्गः सीतापातिव्रत्यप्रशंसा

राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन् । न तत्रारोचयतासं कारणैर्बहुभिस्तदा ।।
इह मे भरतो दृष्टो मातरश्च सनागराः । सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचतः ॥
स्कन्धावारनिवेशेन तेन तस्य महात्मनः । हयहस्तिकरीषैश्च उपमर्दः कृतो भृशम् ॥
तस्मादन्यत्र गच्छाम इति संचिन्त्य राघवः । प्रातिशत स वैदेया लक्ष्मणेन च संगतः ॥
सोऽराश्रममासाद्य तं ववन्दे महायशाः । तं चापि भगवानत्रिः पुत्रवत् प्रत्यपद्यत ।।
स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् । सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ।। ६
पत्नी च समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् । सान्त्वयामास धर्मशः सर्वभूतहिते रतः ।।
अनसूयां महाभागां तापसी धर्मचारिणीम् । प्रतिगृह्णीष्व वैदेहीमब्रवीषिसत्तमः ।।
रामाय चाचचक्षे तां तापसी धर्मचारिणीम् । दश वर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् ।। ९
यया मूलफले सृष्टे जाहवी च प्रवर्तिता । उप्रेण तपसा युक्ता नियमैश्चाप्यलंकृता । १०
दश वर्षसहस्राणि यया तप्तं महत्तपः । अनसूया व्रतैः स्नात्वा प्रत्यूहाश्च निवर्तिताः ॥ ११
देवकार्यनिमित्तं च यया सत्वरमाणया । दशरात्रं कृता रात्रिः सेयं मातेय तेऽनघ । १२
तामिमां सर्वभूतानां नमस्कार्या यशस्विनीम् । अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा ।। १३
अनसूयेति या लोके कर्मभिः ख्यातिमागता । एवं ध्रुवाणं लमृषि तथेत्युक्त्वा स राघवः ॥ १४
सीतामुवाच धर्मशामिदं वचनमुत्तमम् । राजपुत्रि श्रुतं त्वतन्मुनेरस्य समीरितम् ॥ १५
श्रेयोऽर्थमात्मनः शीघमभिगच्छ तपस्विनीम । सीता स्वेतद्वचः श्रुत्वा राघवस्य हितैषिणः ॥ १६
तामत्रिपनी धर्मज्ञामभिचक्राम मैथिली । शिथिलां वलितां वृद्धां जरापाण्डरमूर्धजाम् ॥
सततं वेपमानाङ्गी प्रवाते कदलीं यथा । यां तु सीता महाभागामनसूयां पतिव्रताम् ।। १८
अभ्यवादयदव्यया स्वं नाम समुदाहरस् । अभिवाद्य च वैदेही तापसी तामनिन्दिताम् ।। १९
बद्धाञ्जलिपुटा हष्टा पर्यपृच्छदनामयम् । ततः सीता महाभागां दृष्टा तां धर्मचारिणीम् ।।
२०