पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनशततमः सर्गः २६७

सिद्धार्थः खलु सौमित्रिर्यश्चन्द्रविमलोपमम । मुखं पश्यति रामस्य राजीवाक्षं महाद्युति ॥ १०
कृतकृत्या महाभागा वैदेही जनकात्मजा । भर्तारं मागरान्तायाः पृथिव्या यानुगच्छति ॥ ११
सुभगचित्रकूटोऽसौ गिरिराजोपमो गिरिः । यस्मिन् वसति काकुत्स्थः फुबैर इव नन्दने ।।
कृतकार्यमिदं दुर्ग वनं व्यालनिपेवितम । यदध्यास्ते महातेजा रामः शस्त्रभृतां वरः॥ १३
एवमुक्त्वा महातेजा भरतः पुरुपर्षभः । पद्यामेव महाबाहुः प्रविवेश महद्वनम् ॥ १४
स तानि दुमजालानि जातानि गिरिमानुपु । पुष्पितामाणि मध्येन जगाम वदतां वरः ।। १५
स गिरेश्चित्रकूटस्य सालमामाद्य पुटिरतम् । रामाश्रमगतस्याग्नेर्ददर्श ध्वजमुच्छ्रितम् ।।
तं दृष्ट्वा भरतः श्रीमान मुमोद सहबान्धवः । अत्र राम इति ज्ञात्वा गतः पारमिवाम्भसः ॥ १७
स चित्रकूटे तु गिरी निशम्य रामाश्रमं पुण्यजनोपपन्नम् ।
गुहेन साधं त्वरितो जगाम पुनर्निवेश्यैव चमं महात्मा ।।

इत्यार्षे श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये चतुर्विंशतिसहनिकायां संहितायाम् अयोध्याकाण्डे रामान्वेषणं नाम अष्टनवतितमः सर्ग: एकोनशततमः सर्गः रामसमागमः

निविष्टायां तु सेनायामुत्सुको भरतस्ततः । जगाम भ्रातरं द्रष्टुं शत्रुघ्नमनुदर्शयन् ॥ १
ऋषिं वसिष्ठं संदिश्य मातम शीघ्रमानय । इति त्वरितमग्रेम जगाम गुरुवत्सलः ॥ २
सुमन्त्रन्त्वपि शत्रुघ्रमदूरादन्वपद्यत । रामदर्शनजस्तो भरतस्येव तस्य च ॥
गच्छन्नेवाथ भरतम्तापसालयसंश्रिताम । भ्रातुः पर्णकुटी श्रीमानुटजं च ददर्श ह ॥
शालायास्त्वप्रतस्तस्या ददर्श भरतस्तदा । काष्ठानि चावभन्नानि पुष्पाण्यपचितानि च ॥
सलक्ष्मणस्य रामस्य ददर्शाश्रममीयुपः । कृतं वृक्षेष्वभिज्ञानं कुशचीरैः कचित् कचित् ।। ६
ददर्श च वने तस्मिन् महतः संचयान कृतान । मृगाणां महिपाणां च करीपैः शीतकारणात् ।। ७
गच्छन्नेव महाबाहुर्युतिमान भरतस्तदा । शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वशः ।।
मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् । नातिदूरे हि मन्येऽहं नदी मन्दाकिनीमितः ।।
उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम् । अभिज्ञानकृतः पन्था विकाले गन्तुमिच्छता ।।
१०
इदं चोदात्तदन्तानां कुञ्जराणां तरविनाम । शैलपार्श्व परिक्रान्तमन्योन्यमभिगर्जताम ॥ ११
यमेवाधातुमिच्छन्ति तापसाः सततं बने । तस्यासौ दृश्यने धूमः संकुलः कृष्णवर्त्मनः ।। १२
अत्राई पुरुषव्याघ्र गुरुसंस्कारकारिणम् । आर्य द्रक्ष्यामि संहृष्टं महर्षिमिव राघवम् ।। १३
अथ गत्वा मुहूर्तं तु चित्रकूटं स राघवः । मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् ।। १४