पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

तद्वाक्यं लक्ष्मणः श्रुत्वा व्रीडितः प्रत्युवाच ह । त्वां मन्ये द्रष्टुमायातः पिता दशरथः स्वयम् ॥२०
व्रीडितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह । एप मन्ये महाबाहुरिहास्मान् द्रष्टुमागतः ।।
अथवा नौ ध्रुवं मन्ये मन्यमानः सुखोचितौ । वनवासमनुध्याय गृहाय प्रतिनेष्यति ॥
इमां वाप्येष वैदेहीमत्यन्तसुखसेविनीम् । पिता मे राघवः श्रीमान् धनादादाय यास्यति ॥ २३
एतौ तौ संप्रकाशेते गोत्रवन्ती मनोरमौ । वायुवेगसमौ वीर जवनौ तुरगोत्तमौ ॥
स एष सुमहाकायः कम्पते वाहिनीमुग्वे । नागः शत्रुजयो नाम वृद्धस्तातस्य धीमतः ।।
न तु पश्यामि तच्छत्रं पाण्डरं लोकसत्कृतम् । पितुर्दिव्यं महाबाहो संशयो भवतीह मे ।।
वृक्षायादवरोह त्वं कुरु लक्ष्मण महचः । इतीव रामो धर्मात्मा सौमित्रिं तमुवाच ह॥
अवतीर्य तु सालाप्रात्तस्मात् स समितिजयः । लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वतः ।। २८
भरतेनाथ संदिष्टा संमर्दो न भवेदिति । समन्तात्तस्य शैलस्य सेना वासमकल्पयन् ।। २५
अध्यर्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा । पार्श्व न्यविशदावृत्य गजवाजिरथाकुला ।।
सा चित्रकूट भरतेन सेना धर्म पुरस्कृत्य विधूय दर्पम् ।
प्रसादनार्थ रघुनन्दनस्य विराजते नीतिमता प्रणीता ।।३१

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे भरतगुणप्रशंसा नाम सप्तनवतितमः मर्गः अष्टनवतितमः सर्गः रामान्वेषणम्

निवेश्य सेनां तु विभुः पद्भ्यां पादतां वरः । अभिगन्तुं स काकुमियेष गुरुवर्तकम् ।।
निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत् । भरतो भ्रातरं वाक्यं शत्रुत्रमिदमब्रवीत् ।।
क्षिप्रं वनमिदं सौम्य नरसङ्घः समन्ततः । लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि ॥
गुहो शातिसहस्रेण शरचापासिधारिणा । समन्वेपतु काकुत्थावस्मिन् परिवृतः स्वयम् ।।
अमात्यैः सह पौरैश्च गुरुभिश्च द्विजातिभिः । वनं सर्व चरिष्यामि पद्यां परिवृतः स्वयम् ।। ५
यावन रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम् । वैदेहीं वा महाभागां न मे शान्तिर्भविष्यति ॥
यावन चन्द्रसंकाशं द्रक्ष्यामि शुभमाननम् । भ्रातुः पद्मपलाशाक्षं न मे शान्तिर्भविष्यति ।।
यावन्न चरणौ भ्रातुः पार्थिवन्यञ्जनान्बितौ । प्रग्रहीप्यामि शिरसा न मे शान्तिर्भविष्यति ।।
यावन्न राज्ये राज्याईः पितृपैतामहे स्थितः । अभिषेकजलछिनो न मे शान्तिर्भविष्यति ॥