पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तनवतितमः सर्गः २६५

श्वापदाः परिकर्षन्तु नरांश्च निहतान् मया। शराणां धनुषश्चाहमनृणोऽस्मि महामृधे।
ससैन्यं भरतं हत्वा भविष्यामि न संशयः॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम अयोध्याकाण्डे लक्ष्मणक्रोधो नाम षण्णवतितमः सर्गः सप्तनवतितमः सर्गः भरतगुणप्रशंसा

सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूछितम् । रामस्तु परिसान्त्वाथ वचनं चेदमब्रवीत् ॥
किमत्र धनुपा कार्यमसिना वा सचर्मणा । महेष्वासे महाप्राज्ञ भरते स्वयमागते ॥
पितुः मन्य प्रतिश्रुत्य हत्वा भरतमागतम । किं करिष्यामि राज्येन सापवादेन लक्ष्मण ।।
यद्रव्यं बान्धवानां वा मित्राणां वा क्षये भवेत् । नाहं तत् प्रतिगृह्णीयां भक्षान् "विषकृतानिव ॥४
धर्ममर्थं च कामं च पृथिवीं चापि लक्ष्मण । इच्छामि भवतामर्थ एतत् प्रतिशृणोमि ते ॥
भ्रातृणां संग्रहार्थं च मुखार्थ चापि लक्ष्मण । राज्यमप्यहमिच्छामि सत्येनायुधमालभे ॥
नेयं मम मही मौम्य दुर्लभा सागराम्बरा । न हीच्छेयमधर्मेण शक्रत्वमपि लक्ष्मण ॥
यद्विना भग्नं त्वां च शत्रुघ्नं चापि मानद । भवेन्मम सुखं किंचिद्भरम तत् कुरुतां शिखी ॥
मन्येऽहमागतोऽयोध्यां भरतो भ्रातृवत्सलः । मम प्राणास् प्रियतरः कुलधर्ममनुम्मरन ।। ९
श्रुत्वा प्रत्राजितं मां हि जटावल्कलधारिणम् । जानक्या सहितं वीर त्वया च पुरुषर्षभ ।। १०
स्नेहेनाक्रान्तहदयः शोकेनाकुलितेन्द्रियः । द्रष्टुमभ्यागतो झेष भरतो नान्यथागतः ॥ ११
अम्बां च कैकयी रुष्य परुपं चाप्रियं वदन् । प्रसाय पितरं श्रीमान् राज्यं मे दातुमागतः ॥ १२
प्राप्तकालं यदेपोऽस्मान् भरतो द्रष्टुमिच्छति । अस्मासु मनसाप्येष नाहितं किंचिदाचरेत् ॥ १३
विप्रियं कृतपूर्व ते भरतेन कदा नु किम । ईदृशं वा भयं तेऽद्य भरतं यद्विशङ्कसे ।।
न हि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः । अहं ह्यप्रियमुक्तः स्यां भरतस्याप्रिये कृते ॥
कथं नु पुत्राः पितरं हन्युः कस्यांचिदापदि । भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणमात्मनः ॥ १६
यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे । वक्ष्यामि भरतं दृष्टा राज्यमस्मै प्रदीयनाम् ॥ १७
उच्यमानोऽपि भरतो मया लक्ष्मण तत्त्वतः । राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति ।।
तथोक्तो धर्मशीलेन भ्रात्रा नस्य हिते रतः । लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लजया ॥ १९