पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६८ श्रीमद्बाल्मीकिरामायणे अयोध्याकाण्ड

जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः । जनेन्द्रो निर्जनं प्राप्य धिङ्मे जन्म सजीवितम् ॥ १५
मत्कृते व्यसनं प्राप्तो लोकनाथो महाधुतिः । सर्वान् कामान् परित्यज्य वने वसति राघवः ।। १६
इति लोकसमाक्रुष्टः पादेष्वद्य प्रसादयन् । रामं तस्य पतिष्यामि सीताया लक्ष्मणस्य च ॥ १७
एवं स विलपस्तस्मिन् बने दशरथात्मजः । ददर्श महती पुण्यां पर्णशालां मनोरमाम् ॥ १८
सालतालाश्वकर्णानां पर्णबहुभिरावृताम् । विशाल मृदुविस्तीर्णा कुशैवेदिमिवाध्वरे ।। १९
सक्रायुधनिकाशेश्च कार्मुकै रसाधनैः । रुक्मपृष्टैर्महासारैः शोभितां शत्रुबाधकैः ॥
अर्करश्मिप्रतीकाशैघा रैम्तूणीगतैः शरैः। शोभितां दीप्तवदनैः सौगवतीमिव । २१
महारजतवासोभ्यामसिभ्यां च विराजिताम् । रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् ।।
गोधाङ्गुलित्रैरासक्तैश्चित्रः काञ्चनभूषितैः । अरिसङ्घरनाधृष्यां भृगैः सिंहगुहामिव ।।
प्रागुदक्प्रवणां वेदि विशालां दीप्तपाक्काम् । ददर्श भरतस्तत्र पुण्यां रामनिवेशने ॥
निरीक्ष्य स मुहूर्त तु ददर्श भरतो गुरुम् । उदजे राममासीनं जटामण्डलधारिणम् ।।
कृष्णाजिनधरं तं तु चीरवल्कलबासमम् । ददर्श राममासीनभितः पावकोपमम ।। २६
सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम् । पृथिव्याः मागरान्ताया भता धर्मचारिणम् ॥
उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम् । स्थण्डिले दर्भसंस्तीर्ण सीतया लक्ष्मणेन च ।।
तं दृष्ट्वा भरतः श्रीमान दुःखमोहपरिप्लुतः । अभ्यधावत धर्मात्मा भरतः कैकयीसुतः ।
दृष्दैव विललापार्नो बाध्पसंदिग्धया गिरा । अशक्नुवन धारयितुं धैर्याद्वचनमब्रवीत ।।
यः संसदि प्रकृतिभिर्भवेयुक्त उपामितुप । वन्यैर्मगैरपासीनः सोऽयमारते ममाप्रजः ।।
वासोभिर्बहुसाहयो महात्मा पुरोचितः । मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन ।।
अधारययो विविधाश्चित्राः मुमनसस्तदा । सोऽयं जटाभारमिमं वहते राघवः कथम ।। ३३
यस्य यज्ञैर्यथोद्दिष्टेयुक्नो धर्मस्य संचयः । शरीरक्लेशसंभूतं स धर्म परिमार्गते ।।
चन्दनेन महार्हेण यस्याङ्गमुपसेवितम । मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते ॥
मन्निमित्तमिदं दुःखं प्राप्नो रामः सुखोचितः। धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् ॥
इत्येवं विलपन दीनं प्रविनिमुखपङ्कजः । पादावप्राप्य रामस्य पपात भरतो रुदन ।।
दुःखाभितमो भरतो राजपुत्रो महाबलः । उक्त्वाति मकृद्दीनं पुनर्नोवाच किंचन ॥ ३८
बाष्पापिहितकण्ठश्च प्रेक्ष्य रामं यशस्विनम् । आयत्येवाभिसंऋश्य व्याहतु नाशकत्ततः ॥ ३९
शत्रुनश्चापि रामस्य ववन्दे चरणौ मदन । तावुभौ स समालिङ्गय रामोऽप्यश्रृण्यवर्तयत् ॥
नत: सुमन्त्रेण गुहेन चैव समीयनू राजसुतावरण्ये ।
दिवाकरश्चैव निशाकरश्च यथाम्बरे शुक्रबृहस्पतिभ्याम् ॥