पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५६ श्रीमद्बाल्मीकिरामायणे अयोध्याकाण्डे

तासामुभयतःकूलं पाण्डुमृत्तिकलेपनाः । रम्याश्वावसथा दिव्या प्रामणस्य प्रसादजाः ॥
तेनैव च मुहूर्तेन दिव्याभरणभूषिताः । आगुर्विशतिसाहस्रा ब्रह्मणा पहिताः स्त्रियः ॥ ४३
सुवर्णमणिमुक्ताभिः प्रवालेन च शोभिताः । आगुर्षिशतिसाहस्राः कुबेरपहिताः स्त्रियः ।।
याभिर्गृहीतः पुरुषः सोन्माद इव लक्ष्न्यते । आगुर्विशतिसाहस्रा नन्दनादप्सरोगणाः ॥
नारदस्तुम्बुरुर्गोपः प्रभया सूर्यवर्चसः । एते गन्धर्वराजानो भरतस्याप्रतो जगुः ॥ ४६
अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना । उपानृत्यंस्तु भरतं भरद्वाजस्य शासनात् ।।
यानि माल्यानि देवेपु यानि चैत्ररथे वने । प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ।।
बिल्वा मार्दङ्गिका आसन् कांस्यपाहा विभीतकाः । अश्वत्था नर्तकाश्वासन भरद्वाजस्य शासनात्॥४९
ततः सरलतालाश्च तिलका नक्तमालकाः । प्रहृष्टास्तत्र संपेतुः कुब्जा भूत्वाथ वामनाः ।। ५०
शिंशपामलकीजम्ब्बो याश्चान्याः कानने लताः । प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमेऽवसन् ॥ ५१
सुराः सुरापाः पिबत पायसं च बुभुक्षिताः । मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ' ॥१२
उच्छाद्य नापयन्ति स्म नदीतीरेषु वल्गुषु । अप्येकमेकं पुरुपं प्रमदाः सप्त चाष्ट च ।। ५३
संवाहन्त्यः समापेतुर्नार्यो रुचिरलोचनाः । परिमृज्य तथान्योन्यं पायन्ति वराङ्गनाः ॥
हयान् गजान् खरानुष्ट्रास्तथैव मुरभेः सुतान् । अभोजयन् वाहनपास्तेषां भोज्यं यथाविधि ।। ५५
इड्रंश्च मधु लाजांश्च भोजयन्ति स्म वाहनान् । इक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः ।।
नाश्वबन्धोऽश्वमाजानान्त्र गजं कुखरग्रहः । मत्तप्रमत्तमुदिता चमूः सा तत्र संबभौ ॥
तर्पिताः सर्वकामैरते रक्तचन्दनरूषिताः । अप्सरोगणसंयुक्ताः सैन्या वाचमुदैरयन् ।।
नैवायोध्यां गमिप्यामो न गमिप्याम दण्डकान् । कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥५९
इति पादातयोधाश्च हस्त्यश्वारोहक्धकाः । अनाथास्तं विधि लब्ध्वा वाचमेनामुदैरयन् ।। ६०
संप्रष्टा विनेदुस्ते नरास्तत्र सहनशः । भरतस्यानुयातारः स्वर्गोऽयमिति चात्रुवन् ।। ६१
नृत्यन्ति स्म इसन्ति स्म गायन्ति स्म च सैनिकाः । समन्तात्परिधावन्ति माल्योपेताः सहस्रशः ॥
ततो भुक्तवतां तेषां तदनममृतोपमम । दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मतिः ॥
प्रेष्याश्चेट्यश्च वध्वश्च बलस्थाश्च सहस्रशः । बभूवुस्ते भृशं तृप्ताः सर्वे चाहतवाससः ।।
कुञ्जराश्च खरोष्ट्राश्च गोऽश्वाश्च मृगपक्षिणः । बभूवुः सुभृतास्तत्र नान्यो अन्यमकल्पयत् ।।
नाशुलवामास्तत्रासीन् क्षुधितो मलिनोऽपि वा । रजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत ॥ ६६
आजैश्चापि च वाराहेनिशानवरसंचयैः । फलनियूँइसंसिद्धैः सूपैर्गन्धरसान्वितैः ।। ६७
पुष्पध्वजवतीः पूर्णाः शुक्लस्यानस्थ चाभितः । दशुर्विस्मितास्तत्र नरा लौहीः सहस्रशः ॥ ६८