पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकनवतितमः सर्गः

प्राक्स्रोतसश्च या नद्यः प्रत्यक्स्रोतस एव च । पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वशः॥ १४
अन्याः स्रवन्तु मैरेयं सुरामन्याः सुनिष्ठिताम् । अपराश्वोदकं शीतमिक्षुकाण्डरसोपमम् ।।
आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् । तथैवाप्सरसो देवीर्गन्धर्वाश्चापि सर्वशः ।।
घृताचीमथ विश्वाची मिश्रकेशीमलम्बुसाम् । नागदन्तां च हेमां व हेमामद्रिकृतस्थलाम् ।। १७
शक्रं याश्वोपतिष्ठन्ति ब्रह्माणं याश्च योषितः । सर्वास्तुम्बुरुणा सार्धमाह्वये सपरिच्छदाः ।।
वनं कुरुषु यदिव्यं वासोभूषणपत्रवत् । दिव्यनारीफलं शश्वत्तत् कौवेगमिहंतु च ।।
इह मे भगवान् सोमो विधत्तामनमुत्तमम । भक्ष्य भोज्यं च चोप्यं च लेह्यं च विविध बहु ॥२०
विचित्राणि च माल्यानि पादपप्रच्युतानि च । सुरादीनि च पेयानि मामानि विविधानि च ॥ २१
एवं । युक्तरतेजमाप्रतिमेन च । शिक्षास्वरसमायुक्तं तपसा चारवीन्मुनिः ।।
मनमा ध्यायतस्तस्य प्रामुखस्य कृनाश्चलेः। आजग्मुस्तानि सर्वाणि देवतानि पृथक् पृथक ॥ २३
मलय बर्दुरे चैव ततः स्वेदनुदोऽनिलः । उपम्पृश्य पवौ युक्त्या सुप्रियात्मा सुग्वः शिवः ।।
ततोऽभ्यवर्पन्न धना दिव्याः कुसुमवृष्टयः । दिव्यदुन्दुभिघोषच दिक्षु सर्वामु शुश्रुवे ।।
प्रवनुश्चोत्तमा वाना ननृतुश्चाप्मरोगणाः । प्रजगुर्देवगन्धर्वा वीणाः प्रमुमुचुः स्वगन ॥
म शब्दो द्यां च भूमि च प्राणिनां श्रवणानि च । विवेशोचावचः श्लक्ष्णः ममो लयगुणान्वितः।।२७
तस्मिन्नुपरते शब्दे दिव्ये श्रोत्रमुग्वे नृणाम् । ददर्श भारतं मैन्य विधानं विश्वकर्मण ॥
बभूव हि ममा भूमि. ममन्तान पञ्चयोजनम् । शाहलबहुभिश्छन्ना नीलवैदूर्यमंनिभैः ।। २९
तरिमन बिल्वाः कपित्थाश्च पनमा बीजपूरकाः । आमलक्यो बभूवुश्च चूताश्च फलभूपणाः॥ ३०
उनरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत् । आजगाम नदी दिव्या तीरजर्बहुभिवता ।
चतु शालानि शुभ्राणि मालश्च गजवाजिनाम । हर्म्यप्रासादसंवाधास्तोरणानि शुभानि च ॥
सितमेर्यानभं चापि राजवेश्म सुतोरणम । दिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम ।। ३३
चतुरश्रमसंबाचं शयनामनयानवत् । दिव्यै. सर्वग्मेर्युक्तं दिव्यभोजनवस्त्रवन ।।
उपकल्पितमर्वानं धौतानर्मलभाजनम । क्लुप्तसामनं श्रीमत म्बास्तीर्णशयनोनमम् ॥
प्रविवेश महाबाहुग्नुज्ञातो महापणा । वेश्म तद्रनसंपूर्ण भरतः कैकयीसुत ॥
अनुजग्मुश्च सं सर्वे मन्त्रिण सपुरोहिना। बभूवुश्च मुदा युक्ता दृष्टा तं वेश्मसंविधिम् ।। ३७
सत्र राजासनं दिव्यं व्यजनं छत्रमेव च । भरतो मन्त्रिभि मार्धमभ्यवर्तत राजवत् ॥ ३८
आसनं पूजयामास रामायाभिप्रणम्य च । वालव्यजनमादाय न्यषीदन् सचिवासने ।
आनुपानिपेदुश्च सर्वे मन्त्रिपुरोहिताः । ततः सेनापतिः पश्चात् प्रशास्ता च निषेदतुः ॥
ततस्तत्र मुहूर्तेन नगः पायसकर्दमा । उपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ।।