पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१० श्रीद्वाल्मीकिरामायणे अयोध्याकाण्डे

हीनो भ्रात्रा च पित्रा च शून्यामिक्ष्वाकुपालिताम् । अयोध्यां न प्रवेक्ष्यामि प्रवेत्यामि तपोवनम्॥१८
तयोर्विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत् । भृशमार्ततरा भूयः सर्व एवानुगामिनः ।। १९
ततो विषण्णौ शोचन्तौ शत्रुघ्नभरतावुभौ । धरण्यां संव्यचेष्टेता भमशृङ्गाविवर्षभो ।। २०
ततः प्रकृतिमान् वैद्यः पितुरेषां पुरोहितः । वसिष्धो भरतं वाक्यमुत्थाप्य तमुवाच ह ।। २१
त्रयोदशोऽयं दिवसः पितुर्वृत्तस्य ते विभो । सावशेषास्थिनिचये किमिह त्वं विलम्बसे ।। २२
श्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्यविशेषतः । तेषु चापरिहार्येषु नैवं भवितुमर्हसि ।। २३
सुमन्त्रश्चापि शत्रुघ्नमुत्थाप्याभिप्रसाद्य च । श्रावयामास तत्त्वज्ञः सर्वभूतभवाभवी ।।
उत्थितौ च नरव्याघौ प्रकाशेते यशस्विनौ । वर्षातपपरिछिलौ पृथगिन्द्रध्वजाविव ।। २५
अक्षीणि परिमृद्गन्तौ रक्ताक्षौ दीनभापिणौ । अमात्यास्वरयन्ति स्म तनयो चापराः क्रियाः ।। २६

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम अयोध्याकाण्डे भरतशत्रुघ्नविलापो नाम सप्तसप्ततितमः सर्गः अष्टसप्ततितमः सर्गः कुब्जाविक्षेपः

अथ यात्रां समीहन्तं शत्रुघ्नो लक्ष्मणानुजः। भरत शोकसंतप्तमिदं वचनमब्रवीत् ॥ १
गतिर्यः सर्वभूतानां दुःखे किं पुनरात्मनः । स रामः सत्त्वसंपन्नः क्रिया प्रत्राजितो धनम् ॥
बलवान् वीर्यसंपन्नो लक्ष्मणो नाम योऽप्यसौ । किं न मोचयते रामं कृत्वापि पितृनिग्रहम् ।।
पूर्वमेव तु निप्रायः समवेक्ष्य नयानयो । उत्पथं यः समारूढो नार्या राजा वशं गतः ।।
इति संभाषमाणे तु शत्रुध्ने लक्ष्मणानुजे । प्रारद्वारेऽभूत्तदा कुब्जा सर्वाभरणभूषिता ॥
लिप्ता चन्दनसारेण राजवस्त्राणि बिभ्रती । विविध विविधैस्वैस्तैर्भूषणेश्च विभूषिता ।।
मेखलादामभिषित्रैरन्यैश्च शुभभूषणैः । बभासे बहुभिर्षद्धा रज्जुबद्धेव वानरी ।।
तां समीक्ष्य तदा द्वाःस्थाः सुभृशं पापकारिणीम् । गृहीत्वाकरुणां कुब्जां शत्रुम्नाय न्यवेदयन् ॥ ८
यस्याः कृते वने रामो न्यस्तदेहच वः पिता । सेयं पापा नृशंसा च तस्याः कुरु यथामति ।
शत्रुघ्नश्च तदाज्ञाय वचनं भृशदुःखितः । अन्तःपुरचरान् सनित्युवाच धृतवतः ॥
तीनमुत्पादितं दुःखं भ्रातृणां मे तथा पितुः । यया सेयं नृशंसस्य कर्मणः फलमश्नुताम् ।। ११
एषमुक्त्वा तु तेनाशु सखोजनसमावृता । गृहीता बलवत् कुब्जा सा तद्गृहमनादयत् ॥
वतः सुशसंतप्तस्तस्याः सर्वः सखोजनः । कुद्धमाशाय शत्रुघ्नं व्यपलायत सर्वशः ।। १३