पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनाशीतितमः सर्गः २४१ २० आमन्त्रयत कृत्स्नश्च तस्याः सर्वः सखीजनः । यथायं समुपक्रान्तो निःशेषान्नः करिष्यति ।। १४ सानुक्रोश वदान्यां च धर्मज्ञां च यशस्विनीम् । कौसल्यां शरणं याम सा हि नोऽस्तु ध्रुवा गतिः॥१५ स च रोषेण ताम्राक्षः शत्रुनः शत्रुतापनः । विचकर्ष तदा कुब्जा क्रोशन्तीं धरणीतले ॥ तस्या ह्याकृष्यमाणाया मन्थरायास्ततस्ततः। चित्रं बहुविधं माण्डं पृथिव्यां तब्यशीर्यत । तेन भाण्डेन संकीर्ण श्रीमद्राजनिवेशनम् । अशोभत तदा भूयः शारदं गगनं यथा । १८ स बली पलवल्क्रोधाद्गृहीत्वा पुरुषर्पभः । कैकेयीमभिनिर्भय॑ बभापे परुपं वचः ।। तैर्वाक्यैः परुपैर्दुःखैः कैकेयी भृशदुःखिता । शत्रुघ्नभयसंत्रस्ता पुत्रं शरणमागता ।। तां प्रेक्ष्य भरतः क्रुद्धं शत्रुघ्नमिदमत्रवीन् । अवघ्याः सर्वभूतानां प्रमदाः भम्यतामिति ।। २१ हन्यामहमिमां पापा कैकेयी दुष्टचारिणीम् । यदि मां धार्मिको रामो नासूयेन्मातृघातकम् ।। २२ इमामपि हनां कुब्जां यदि जानाति राघवः । त्वां च मां च हि धर्मात्मा नाभिभाषिप्यते ध्रुवम ।। २३ भरतस्य वचः श्रुत्वा शत्रुघ्नो लक्ष्मणानुजः । न्यवर्तत ततो रोषात्तां मुमोच च मन्थराम् ॥ २४ मा पादमूले कैकेय्या मन्थग निगपात ह । निःश्वसन्ती सुदुःखार्ता कृपणं विललाप च ॥ शत्रुघ्नविक्षेपविमूढसंज्ञां समीक्ष्य कुब्जा भरतस्य माता । शनैः समाधामयदानरूपां क्रौञ्ची विलमामिव वीक्षमाणाम् ।। २६ इत्यार्षे श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे कुब्जाविक्षेपो नाम अष्टसप्ततितमः सर्ग: १ २ एकोनाशीतितमः सर्गः सचिवप्रार्थनाप्रतिषेधः ततः प्रभातसमये दिवसे च चतुर्दशे । समेत्य राजकर्तारो भरतं वाक्यमब्रुवन् । गतो दशरथः स्वर्ग यो नो गुरुतरो गुरुः । रामं प्रत्राज्य वै ज्योष्ट लक्ष्मणं च महाबलम ॥ त्वमद्य भव नो राजा राजपुत्र महायशः । संगत्या नापराप्नोति राज्यमेतदनायकम् ।। आभिपेचनिकं सर्वमिदमादाय गघव । प्रतीक्षते त्वां स्वजनः श्रेणयश्च नृपात्मज ।। राज्यं गृहाण भरत पितृपैतामहं ध्रुवम् । अभिषेचय चात्मानं पाहि चास्मानरर्षभ'। आभिषेचनिकं भाण्डं कृत्वा सर्व प्रदक्षिणम् । भरतस्तं जनं सर्व प्रत्युवाच धृतश्रतः ॥ ज्येष्ठस्य राजना नित्यमुचिता हि कुलस्य नः । नैवं भवन्तो मां वक्तुमईन्ति कुशला जनाः ॥ रामः पूर्वो हि नो भ्राता भविष्यति महीपतिः । अहं त्वरण्ये वत्स्यामि वर्षाणि नव पञ्च च ॥