पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२३९ सप्तसप्ततितमः सर्गः

कृत्वोदकं ते भरतेन सार्धं नृपाङ्गना मन्त्रिपुरोहिताश्च ।
पुरं प्रविश्याश्रुपरीतनेत्रा भूमौ दशाई व्यनयन्त दुःखम् ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे दशरथौर्ध्वदैहिकं नाम पद सप्ततितमः सर्गः सप्तसप्ततितमः सर्गः भरतशत्रुघ्नविलापः

ततो दशाहेऽतिगते कृतशौचो नृपात्मजः । द्वादशेऽहनि संप्राप्ते श्राद्धकर्माण्यकारयत् ।। १
ब्राह्मणेभ्यो ददौ रत्नं धनमन्नं च पुष्कलम् । बास्तिकं बहुशुक्लं च गाश्चापि शतशस्तदा ।।
दासीदासं च यानं च वेश्मानि सुमहान्ति च । ब्राह्मणेभ्यो ददौ पुत्रो राशस्तस्यौदैहिकम् ।।
ततः प्रभातसमये दिवसेऽथ त्रयोदशे । विललाप महाबाहुर्भरतः शोककर्शितः ॥
शब्दापिहितकण्ठस्तु शोधनार्थमुपागतः । चिनामूले पितुर्वाक्यमिदमाह सुदुःखितः।
तात यस्मिन्निसृष्टोऽहं त्वया भ्रातरि राघवे । तस्मिन् वनं प्रत्रजिते शून्ये त्यक्तोऽस्म्यहं त्वया ।। ६
यम्या गतिरनाथायाः पुत्रः प्रवाजितो क्नम् । तामम्बां तात कौसल्यां त्यक्त्वा त्वं क गतो नृप ॥७
दृष्टा भस्मारुणं तञ्च दग्धास्थिस्थानमण्डलम । पितुः शरीरनिर्वाणं विष्टनन' विषमाद सः ॥
स तु दृष्ट्रा रुदन् दीनः पपात धरणीनले । उत्थाप्यमानः शक्रस्य यन्त्रध्वन इव च्युतः ॥
अभिपेतुस्तनः सर्वे नस्यामात्याः शुचित्रतम ! अन्नकाले निपतितं ययातिमृपयो यथा ।। १०
शवनश्चापि भरतं दृष्ट्वा शोकपरिप्लुतम । विसंज्ञो न्यपतद्भूमौ भूमिपालमनुस्मरन् ।। ११
उन्मत्त इत्र निश्वेता विललाप सुदुःखितः । स्मृत्वा पितुर्गुणाङ्गानि तानि सानि तदा तदा ।।
मन्थराप्रभवस्तीत्रः कैकेयीग्राहसंकुलः । वरदानमयोऽक्षोभ्योऽमजयच्छोकसागरः॥ १३
सुकुमारं च बालं च सततं लालितं त्वया। क तात भरतं हित्वा विलपन्तं गतो भवान ।।
ननु भोज्येषु पानेषु वनेष्वाभरणेषु च । प्रवारयसि नः सर्वास्तन्नः कोऽन्यः करिष्यति ।। १५
अवदारणकाले तु पृथिवी नावदीर्यते । या विहीना त्वया राज्ञा धर्मज्ञेन महात्मना ।। १६
पितरि स्वर्गमापन्ने रामे चारण्यमाश्रिते । किं मे जीवितसामर्थ्यं प्रवेक्ष्यामि हुताशनम् ।।