पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकसप्ततितमः सर्गः

निर्यान्तो वाभियान्तो वा नरमुख्या यथापुरम् । उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च ॥ जनानां रतिसंयोगेष्यत्यन्तं गुणवन्ति च । तान्येतान्यद्य पश्यामि निरानन्दानि सर्वशः॥ सस्तपणैरनुपथं विक्रोशद्भिरिव दुमैः । नायापि श्रूयते शब्दो मत्तानां मृगपक्षिणाम् ॥ संरक्तां मधुरं वाणी कलं व्याहरतां बहु । चन्दनागरुसंपृक्तो धूपसंमूच्छितोऽतुलः ।। प्रवाति पवनः श्रीमान् किं नु नाद्य यथापुरम् । भेरीमृदङ्गवीणानां कोणसंघट्टितः पुनः ॥ किमध शब्दो विरतः सदादीनगतिः पुरा । अनिष्टानि च पापानि पश्यामि विविधानि च ॥ निमित्तान्यमनोज्ञानि तेन सीदति मे मनः । सर्वथा कुशलं सूत दुर्लभ मम बन्धुषु ।। तथा यसति संमोहे हृदयं सीदतीव मे । विषण्णः श्रान्तहृदयलस्तः संलुलितेन्द्रियः॥ भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् । द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनः॥ द्वाःस्थैरुत्थाय विजयं पृष्टस्तैः सहितो ययौ । स त्वनेकामहृदयो द्वाःस्थं प्रत्यच्च तं जनम् ॥ सूतमश्वपतेः क्लान्तमब्रवीत्तत्र राघवः । किमहं त्वरयानीतः कारणेन विनानघ ।। अशुभाशाकि हृदयं शीलं च पततीव मे । श्रुना नो यादृशः पूर्व नृपतीनां विनाशने ॥ आकारांस्तानहं सर्वानिह पश्यामि सारथे। संमार्जनविहीनानि पल्याण्युपलक्षये ॥ असंयतंकवाटानि श्रीविहीनानि सर्वशः । बलिकर्मविहीनानि धूपसंमोदनेन च । अनाशितफुटुम्बानि प्रभाहीनजनानि च । अलक्ष्मीकानि पश्यामि कुटुम्बिभवनान्यहम् ॥ अपेतमाल्यशोमान्यप्यसंमृष्टाजिराणि च । देवागाराणि शून्यानि न चाभान्ति यथापुरम् ।। देवतार्चाः प्रविद्धाश्च यज्ञगोप्ठ्यस्तथाविधाः । माल्यापणेपु राजन्ते नाद्य पण्यानि वै तथा॥ दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्र वै । ध्यानसंविमहदया नष्टव्यापारयन्त्रिताः। देवायतनचैत्येपु दीनाः पक्षिगणास्तथा । मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम् ॥ सस्त्रीपुंसं च पश्यामि जनमुत्कण्ठितं पुरे । इत्येवमुक्त्वा भरतः सूतं तं दोनमानसः॥ तान्यरिष्टान्ययोध्यायां प्रेक्ष्य राजगृहं ययौं । तां शून्यशृङ्गाटकवेश्मरथ्यां रजोऽरुणद्वारकपाटयन्त्राम् । दृष्टा पुरीमिन्द्रपुरप्रकाश दुःखेन संपूर्णतरो बभूव ।। बहूनि पश्यन् मनसोऽप्रियाणि यान्यन्यदा नात्र पुरे घभूवुः । अवाक्शिरा दीनमना न हृष्टः पितुर्महात्मा प्रविवेश वेश्म ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिवाव्ये चतुविशतिमहस्रिकाश महिनासम् अयोध्याकाण्डे अयोध्यागमनं नाम एकसप्ततितमः सर्गः