पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२३० श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे द्विसप्ततितमः सर्गः भरतसन्तापः & a no

अपश्यंस्तु ततस्तत्र पितरं पितुरालये । जगाम भरतो द्रष्टुं मातरं मातुरालये ।। अनुप्राप्तं तु तं दृष्टा कैकेयी प्रोषितं सुतम् । उत्पपात तदा दृष्टा त्यक्त्वा सौवर्णमासनम् ।। स प्रविश्यैव धर्मात्मा स्वगृहं श्रीविवर्जितम् । भरतः प्रतिजग्राह जनन्याश्चरणौ शुभौ ॥ ३ सा तं मूर्धन्युपाघ्राय परिष्वज्य यशस्विनम् । अङ्के भरतमारोप्य प्रष्टुं समुपचक्रमे ।। अद्य ते कतिचिद्राभ्यश्च्युतस्यार्यकवेश्मनः । अपि नाध्वश्रमः शीघ्रं रथेनापततस्तव ॥ आर्यकस्ते सुकुशली युधाजिन्मातुलस्तव । प्रवासाच सुखं पुत्र सर्व मे वक्तुमर्हसि ॥ एवं पृष्टस्तु कैकेय्या प्रियं पार्थिवनन्दनः । आचष्ट भरतः सर्व मात्रे राजीवलोचनः । अध मे सप्तमी रात्रिश्च्युतस्यार्यकवेश्मनः । अम्बायाः कुशली तातो युधाजिन्मातुलश्च मे ॥ ८ यन्मे धनं च रत्नं च ददौ राजा परंतपः । परिश्रान्तं पथ्यभवत्ततोऽहं पूर्वमागतः ।। राजवाक्यहरैतैस्त्वर्यमाणोऽहमागतः । यदहं प्रष्टुमिच्छामि तदम्बा वक्तुमर्हति ॥ शून्योऽयं शयनीयस्ते पर्यको हेममूषितः । न चायमिक्ष्याकुजनः प्रहृष्टः प्रतिभाति मे ।। ११ राजा भवति भूयिष्ठमिहाम्बाया निवेशने । तमहं नाद्य पश्यामि द्रष्टुमिच्छनिहागतः ॥ १२ पितुर्महीध्ये चरणौ तं ममाख्याहि पृच्छतः । आहोरिवदम्ब ज्येष्ठायाः कौसल्याया निवेशने ।। १३ तं प्रत्युवाच कैकेयी प्रियवद्धोरमप्रियम् । अजानन्तं प्रजानन्ती राज्यलोभन मोहिता ।। या गतिः सर्वभूतानां तां गतिं ते पिता गतः । राजा महात्मा तेजस्वी यायकः मतां गतिः ।। १५ तच्छ्रुत्वा भरतो वाक्यं धर्माभिजनवाशुचिः । पपात सहसा भूमौ पितृशोकबलार्दितः ।। १६ हा हतोऽस्मीति कृपणां दीनां वाचमुदीरयन् । निपपात महाबाहुर्बाहू विक्षिप्य वीर्यवान् । १७ ततः शोकेन संविग्नः पितुर्मरणदुःखितः । विललाप महातेजा भ्रान्ताकुलितचेननः ।। १८ एतत् सुरुचिरं भाति पितुर्मे शयनं पुरा। शशिनेवामलं रात्रौ गगनं तोयदात्यये । १९ तदिदं न विभात्यद्य विहीनं तेन धीमता । व्योमेव शशिना हीनं विशुष्क इव सागरः ।। बाष्पमुत्सृज्य कण्ठेन स्वार्तः परमपीडितः । प्रच्छाय वदनं श्रीमद्वस्त्रेण जयतां वरः। २१ तमात देवसंकाशं समीक्ष्य पतितं भुवि । निकृत्तमिव सालस्य स्कन्धं परशुना बने । माता मातङ्गसंकाशं चन्द्रार्कसदृशं भुवः । उत्थापयित्वा शोकात वचनं चेदमब्रवीत् ॥ २३ उत्तिष्ठोत्तिष्ठ किं शेषे राजपुत्र महायशः । त्वद्विधा न हि शोचन्ति सन्तः सदसि संमताः ।। दानयज्ञाधिकारा हि शीलश्रुतिवचोऽनुगा । बुद्धिस्ते बुद्धिसंपन्न प्रभेवार्कस्य मन्दरे ॥