पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥
॥ श्रीमद्रामायणपारायणसमापनक्रमः ॥
॥ स्मार्तसंप्रदायः ॥
स्वस्ति प्रजाभ्यः परिपालयन्तां न्याय्येन मार्गेण महीं महीशाः ।
गोगामणेभ्यः यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु ॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी | देशोऽयं क्षोमरहितो ब्राह्मणाः सन्तु निर्मयाः ॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः | अपनाः सघनाः सन्तु जीवन्तु शरदां शतम् ॥
चरितं रघुनाथस्य शतकोटिप्रविस्तरम् । एकैकमक्षरं प्रोक्तं महापातकनाशनम् ॥
शृण्वन् रामायणं मक्त्या यः पादं पदमेव वा । स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ॥
रामाय राममद्राय रामचन्द्राय वेषसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥
यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते | वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम् ||
मङ्गलं कोसलेन्द्राय महनीयगुणात्मने । चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् ॥
यन्मङ्गलं सुपर्णस्य विनताकल्पयत् पुरा | अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम् ॥
अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् । अदितिर्मङ्गलं प्रादात्तत्ते भवतु मङ्गलम् ||
श्रीन् विक्रमान् प्रक्रमतो विष्णोरमिततेजसः । यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम् ॥
ऋतवः सागारा द्वीपा वेदा लोका दिशम्य ते । मङ्गलानि महाबाहो दिशन्तु तब सर्वदा ॥
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥
॥ श्रीवैष्णवसंप्रदायः ॥
एवमेतत् पुरावृत्तमाख्यानं मद्रमस्तु वः । प्रभ्याइरत विश्रब्धं बलं विष्णोः प्रवर्धताम् ||
लामस्तेषां जयस्तेषां कुतस्तेषां पराभवः । येषामिन्दीवरश्यामो हृदये सुप्रतिष्ठितः ॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी | देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्मयाः ॥
कावेरी वर्षतां काले काले वर्षतु वासवः | श्रीरङ्गनाथो जयतु श्रीरङ्गश्रीच वर्धताम् ॥