पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्रामायणपारायणसमापनक्रमः
स्वस्ति प्रजाभ्यः परिपालयन्तां
न्याय्येन मार्गेण महीं महीशाः ।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु ॥
मङ्गलं कोसलेन्द्राय महनीयगुणाब्धये । चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् ||
वेदवेदान्तवेद्याय मेघश्यामलमूर्तये | पुंसां मोहनरूपाय पुण्यश्लोकाय मङ्गलम् ॥
विश्वामित्रान्तरकाय मिथिलानगरीपतेः । भाग्यानां परिपाकाय भव्यरूपाय मङ्गलम् ॥
पितृमक्ताय सततं भ्रातृभिः सह सीतया । नन्दिताखिललोकाय रामभद्राय मङ्गलम् ॥
व्यक्तसाकेतवासाय चित्रकूटविहारिणे । सेव्याय सर्वयमिनां धीरोदाराय मङ्गलम् ॥
सौमित्रिणा च जानक्या चारषाणासिधारिणे । संसेव्याय सदा मक्त्या स्वामिने मम मङ्गलम् ॥
दण्डकारण्यवासाय खण्डितामरशत्रवे | गृञराजाय भक्ताय मुक्तिदायास्तु मङ्गलम् ॥
सादरं शबरीदत्तफलमूलाभिलाषिणे । सौलम्यपरिपूर्णाय सवोद्रिक्ताय मङ्गलम् ||
हनुमत्समवेताय हरीशाभीष्टदायिने | वालिप्रमथनायास्तु महाधीराय मङ्गलम् ॥
श्रीमते रघुवीराय सेतूलचितसिन्धवे । जितराक्षसराजाय रणधीराय मङ्गलम् ॥
आसाद्य नगरीं दिव्यामभिषिक्ताय सीतया । राजाधिराजराजाय राममद्राय मङ्गलम् ॥
मङ्गलाञ्चासन परैमैदाचार्यपुरोगमैः । सर्वेश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ||
॥ माध्वसंप्रदायः ॥
स्वस्ति प्रजाभ्यः परिपालयन्तां न्याय्येन मार्गेण महीं महीशाः ।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु ॥
काले वर्षतु पर्जन्यः पृथिवी सत्यशालिनी | देशोऽयं क्षोमरहितो ब्राह्मणाः सन्तु निर्मयाः ॥
लामस्तेषां जयस्तेषां कुतस्तेषां पराभवः । येषामिन्दीवरश्यामो हृदये सुप्रतिष्ठितः ॥
मङ्गलं कोसलेन्द्राय महनीयगुणान्धये । चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् ||


कायेन वाचा मनसेन्द्रियैवी
बुद्धधात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि ॥