पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे अवतीर्णां च पृथिवीं शुष्कांश्च विविधान् द्रुमान् । अहं पश्यामि विध्वस्तान् सधूमांश्चापि पर्वतान् ।।१३ पीठे कार्ष्णायसे चैनं निषण्णं कृष्णवाससम । प्रहसन्ति स्म राजानं प्रमदाः कृष्णपिङ्गालाः ।। १४ त्वरमाणश्च धर्मात्मा रक्तमाल्यानुलेपनः । रथेन खरयुक्तेन प्रयातो दक्षिणामुखः ॥ १५ प्रहसन्तीव राजानं प्रमदा रक्तवासिनी । प्रकर्षन्ती मया दृष्टा राक्षसी विकृतानना ॥ एवमेतन्मया दृष्टमिमां रात्रि भयावहाम् । अहं रामोऽथ वा राजा लक्ष्मणो वा मरिष्यति ॥ नरो यानेन यः स्वप्ने खरयुक्तेन याति हि । अचिरात्तस्य धूमाग्रं चितायां संप्रदृश्यते ।। १८ एतन्निमित्तं दीनोऽहं तन्न वः प्रतिपूजये । शुष्यतीव च मे कण्ठो न स्वस्थमिव मे मनः ।। १९ न पश्यामि भयस्थान भयं चैवोपधारये । भ्रष्टश्च स्वरयोगो मे छाया चोपहता मम ।। जुगुप्सभिव चात्मानं न च पश्यामि कारणम् ॥ इमां हि दुःस्वप्नगतिं निशम्य तामनेकापामवितर्किता पुरा । भयं महत्तद्धृदयान्न याति मे विचिन्त्य राजानचिन्त्यदर्शनम् ।। २१ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकाया संहितायां अयोध्याकाण्डे भरतदुःस्वप्नो नाम एकोनसप्ततितमः सर्गः


सप्ततितमः सर्गः भरतप्रस्थानम् भरते ब्रुवति स्वप्नं दूतारते क्लान्तवाहनाः । प्रविश्यासहपरिखं रम्यं राजगृहं पुरम् ।। समागम्य च राज्ञा च राजपुत्रेण चार्चिताः । राज्ञः पादौ गृहीत्वा तु तमूचुर्भरतं वचः ।। पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः । त्वरमाणश्च निर्याहि कृत्यमाययिकं त्वया ॥ इमानि च महाणि वस्त्राण्याभरणानि च । प्रतिगृह्य विशालाक्ष मातुलस्य च दापय ॥ अत्र विंशतिकोट्यस्तु नृपतेर्मातुलस्य ते । दश कोटवस्तु संपूर्णास्तथैव च नृपात्मज ।। प्रतिगृह्य तु तत्सर्व स्वनुरक्तः सुहजने । दूतानुवाच भरतः कामैः संप्रतिपूज्य तान् ।। ६ कश्चित् सकुशली राजा पिता दशरथो मम । कविचारोगता रामे लक्ष्मणे वा महात्मनि ।। आर्या च धर्मनिरना धर्मज्ञा धर्मदर्शिनी । अरोगा चापि कौसल्या माता रामस्य धीमनः ।। कश्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या । शत्रनस्य च वीरस्य सारोगा चापि मध्यमा ।। आत्मकामा सदा चण्डी क्रोधना प्राशमानिनी । अरोग चापि मे माता कैकेयी किमुवाच ह ॥ १० एवमुक्तास्तु ते दूता भरतेन महात्मना ! ऊचुः मप्रश्रयं वाक्यमिदं तं भरतं तदा ।। ११ कुशलास्ते नरव्याघ्र येषां कुशलमिच्छसि । श्रीश्च त्वां वृणुते पद्मा युज्यतां चापि ते ग्थः ।।