पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनसप्ततितमः सर्गः २२५ २० अमिकालं सतः प्राप्य 'तेजोऽभिभवनाच्च्युताः । पितृपैतामहीं पुण्यां तेरुरिनक्षुमतीं नदीम् ।। १७ अवेल्याञ्जलिपानांश्च ब्रामणाम् वेदपारगान् । ययुमध्येन बाहीकान् सुदामानं च पर्वतम् ॥ १८ विष्णोः पदं प्रेक्षमाणा विपाशां चापि शाल्मलीम् । नदीर्वापीस्तटाकानि पल्बलानि सरांसि च ।। १९ पश्यन्तो विविधांश्चापि सिंहळ्यानमृगद्विपान् । ययुः पथातिमहता शासनं भर्तुरीप्मवः ॥ ते श्रान्तवाहना दूता विकृष्टेन पथा ततः । गिरित्रज पुरवरं शीघ्रमासेदुरञ्जसा ।। २१ भर्तुः प्रियार्थ फुलरभणार्थ भर्तुश्च वंशस्य परिप्रहार्थम् । अहेडमानास्वरया स्म दूता राज्यां तु ते तत्पुरमेव याताः ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकाये आदिकाव्ये चतुर्विंशतिसहमिकायां सहितायान अयोध्याकाण्ड दूतप्रेषणं नाम अष्टपष्टितमः मर्गः

एकोनसप्ततितमः सर्गः भरतदुःस्वप्नः यामेव रात्रिं ते दूताः प्रविशन्ति स्म तां पुरीम् । भरतेनापि तां रात्रि स्वप्नो दृष्टोऽयमप्रियः ।। व्युष्टामेव तु तां रात्रिं दृष्टा तं स्वप्नमप्रियम् । पुत्रो राजाधिराजस्य सुभृशं पर्यंतष्यत ।। तप्यमानं समाज्ञाय वयस्याः प्रियवादिनः । आयासं हि विनेष्यन्तः सभायां चक्रिरे कथाः ॥ वादयन्ति तथा शान्ति लासयन्त्यपि चापरे । नाटकान्यपरे प्राहुहास्यानि विविधानि च ।। स तैर्महात्मा भरतः सखिभिः प्रियवादिभिः । गोष्टीहास्यानि कुर्वद्भिर्न प्राहृष्यत राघवः ।। तमनवीन प्रयसखो भरतं सखिभिवृतम् । सुद्भिः पर्युपासीनः किं सखे नानुमोदसे ।। एवं बुवाणं सुहृदं भरतः प्रत्युवाच तम् । शृणु त्वं यनिमित्त मे दैन्यमेतदुपागतम् ।। स्वप्ने पितरमद्राक्ष मलिन मुक्तमूर्धजम् । पतन्तमद्रिशिखरात् कलुषे गोमयदे ॥ प्लवमानश्च मे दृष्टः स तस्मिन् गोमयदे । पिबन्नञ्जलिना तैलं हसानिव मुहुर्मुहुः ॥ ततस्तिलौदनं भुक्त्वा पुनः पुनरधःशिराः । तैलेनाभ्यक्तसर्वाङ्गस्तैलमेवान्वगाहत । स्वमेऽपि सागरं शुष्कं चन्द्रं च पतितं भुवि । उपरुद्धां च जगतीं तमसेव समावृताम् ।। औपवाह्यस्य नागस्य विषाणं शकलीकृतम् । सहसा चापि संशान्तं ज्वलितं जातवेदसम् ॥