पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२४ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे राजा सत्यं च धर्मश्च राजा कुलवतां कुलम् । राजा माता पिता चैव राजा हितकरो नृणाम् ॥३४ यमो वैश्रवणः शक्रो वरुणश्च महाबलः । विशेष्यन्ते नरेन्द्रेण वृत्तेन महता ततः। अहो तम इवेदं स्यान्न प्रज्ञायेत किंचन । राजा चेन्न भवेल्लोके विभजन साध्वसाधुनी ॥ ३६ जीवत्यपि महाराजे तवैव वचनं वयम् । नातिक्रमामहे सर्वे वेलां प्राप्येव सागरः॥ स नः समीक्ष्य द्विजवर्य वृत्तं नृपं विना राज्यमरण्यभूतम् । कुमारमिक्ष्वाकुसुतं तथान्यं त्वमेव राजानमिहाभिपिश्च ।। ३८ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहलिकायां संहित,याम् अयोध्याकाण्डे अराजकदुरवस्थावर्णनं नाम सप्तपष्टितमः सर्ग:

अष्टषष्टितमः सर्गः दूतप्रेषणम् तेषां नद्वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह । मित्रामात्यगणान् सर्वान ब्राह्मणांस्तानिदं वचः ।। यदसौ मातुलकुले दत्तराज्यः परं सुखी । भरतो वसति भ्रात्रा शत्रुभेन समन्वितः ।। तच्छीघ्रं जवाना दूता गच्छन्तु त्वरितहयैः । आनेतुं भ्रातरौ वीरौ कि समीक्षामहे क्यम् ।। ३ गच्छन्विति ततः सर्वे वसिष्टं वाक्यमब्रुवन् । तेषां तु वचनं श्रुत्वा वसिष्ठो वाक्यमब्रवीत् ।। एहि सिद्धार्थ विजय जयन्ताशोक नन्दन । श्रूयतामितिकर्तव्यं सर्वानेव ब्रवीमि वः ॥ पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवर्हयैः । त्यक्तशोरिदं वाच्यः शामनाद्भरतो मम ।। पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः । त्वरमाणश्च नियहि कृत्यमात्यायकं त्वया' ।। मा चास्मै प्रोपितं रामं मा चास्मै पितरं मृतम् । भवन्तः शंसिपुर्णत्वा राघवाणामिमं भयम् ॥ ८ कौशेयानि च वस्त्राणि भूषणानि वराणि च । क्षिप्रमादाय राज्ञश्च भरतस्य च गच्छत ।। दत्तपथ्यशना दूता जग्मुः स्वं स्वं निवेशनम । केकयांग्ते गमिष्यन्तो हयानारुह्य संमतान् ॥ १० ततः प्रास्थानिकं कृत्वा कार्यशेषमनन्तरम् । वसिष्टेनाभ्यनुज्ञाता दूताः संत्वरिता ययुः ।। ११ न्यन्तेनापरतालस्य प्रलम्बस्योत्तरं प्रति ! निषेवमाणास्ते जग्मुर्नदी मध्येन मालिनीम ॥ १२ ते हास्तिनपुरे गलो तीर्खा प्रत्यङ्मुखा ययुः । पाञ्चालदेशानासाद्य मध्येन कुरुजाङ्गलम् ॥ १३ सरांसि च सुपूर्णानि नदीश्च विमलोदकाः । निरीक्षमाणास्ते जग्मुर्भूताः कार्यवशाद्रुतम् ॥ १४ ते प्रसन्नोदकां दिव्यां नानाविहगसेविताम् । अतीत्य जग्मुर्वेगेन शरदण्डां जनाकुलाम् ॥ १५ निकूलवृक्षमासाध दिव्यं सत्योपयाचनम् । अभिगम्याभिवाद्यं तं कुलिङ्गां प्राविशन् पुरीम् ॥१६