पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री महामायणपारायणोपक्रमक्रमः
गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् | रामायणमहामालारत्वं वन्देऽनिलात्मजम् ॥
अजनानन्दनं वीरं जानकीशोकनाशनम् । कपीशमक्षहन्तारं वन्दे लहाभयङ्करम् ॥

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥
उल्लवथ सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः |
आदाय तेनैव ददाह लकां नमामि तं प्राञ्जलिराजनेयम् ॥
बाजनेयमतिपाटलाननं काञ्चनाद्रिकमनीय विग्रहम् ।
पारिजाततरुमूलवासिनं मावयामि पत्रमाननन्दनम् ॥
यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् |
बाष्पवारिपरिपूर्णलोचनं मारुर्ति नमत राक्षसान्तकम् ॥
वेदवेषे परे पुंसि जाते दशरथात्मजे | वेदः प्राचेतसादासीत् साक्षाद्रामायणात्मना ।
तदुपगतसमाससन्धियोगं सममधुरोपनतार्थवाक्यबद्धम् ।
रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम् ||
श्रीराघवं दशरथात्मजमप्रमेयं सीतापति रघुकुलान्वयरलदीपम् ।
आजानुबाहुमरविन्ददलायताक्षं रामं निशाचरविनाशकरं नमामि ॥
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे
मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम्
अग्रे वाचयति प्रभञ्जनसुते तत्वं मुनिभ्यः परं
ब्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥
॥ माध्वसंप्रदायः ॥
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
लक्ष्मीनारायणं वन्दे तद्भक्तप्रवरो हि यः । श्रीमदानन्दतीर्थाख्यो गुरुस्तं च नमाम्यहम् ॥
वेदे रामायणे चैव पुराणे मारते तथा । बादावन्ते च मध्ये च विष्णुः सर्वत्र गीयते ॥
सर्वप्रिशमनं सर्वसिद्धिकरं परम् | सर्वजीवप्रणेतारं वन्दे विजयदं हरिम् ||