पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

तथा हि सत्यं ब्रुवति प्रजाहिते नरेन्द्रपुत्रे गुरुसौहृदाद्गुहः ।
मुमोच बाष्पं व्यसनाभिपीडितो ज्वरातुरो नाग इव व्यथातुरः ।।

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिससिकायां संहितायाम अयोध्याकाण्डे गुहलक्ष्मणजागरणं नाम एकपञ्चाशः सर्गः द्विपञ्चाशः सर्गः गङ्गावतरणम्

प्रभातायां तु शयां पृथुवक्षा महायशाः । उवाच रामः सौमित्रि लक्ष्मणं शुभलक्षणम् ।।
भास्करोदयकालोऽसौ गता भगवती निशा । असौ मुकृष्णो विहगः कोकिलस्तान कूजति ।।
बहिणानां च निर्घोपः श्रूयते नदतां वन । तराम जाह्नवीं सौम्य शीघ्रगां सागरंगमाम ।।
विज्ञाय रामस्य वचः सौमित्रिमित्रनन्दनः । गुहमामन्त्र्य सूनं च सोऽतिष्ठद्धानुरग्रतः ।।
स तु रामस्य वचनं निशम्य प्रतिगृह्य च । स्थपतिस्तृर्णमाहूय सचिवानिदमब्रवीत् ।।
अस्य वाहनसंयुक्तां कर्णग्राहवती शुभाम् । मुप्रतारां दृढां नीर्थ शीघ्रं नावमुपाहर ।।
तं निशम्य गुहादेश गुहामात्यगणो महान् । उपोय रुचिरां नावं गुहाय प्रत्यवेदयन् ।।
ततः स प्राञ्जलिर्भूत्वा गृहो राधवमब्रवीत् । उपस्थितेय नौदेव भूयः किं करवाणि ते ।।
ववामरसुतप्रख्य ततु सागरगां नदीम् । नौरियं पुरुपव्याघ्र तां त्वमारोह सुत्रन ।।
अथोवाच महातजा रामो गुहमिदं वचः । कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति ॥ १०
ततः कलापान संना खड्गी बद्ध्वा च धन्विनौ । जग्मतुर्यन' तो गङ्गां मीतया सह राघवौ ॥११
राममेवं तु धर्मामुपगम्य विनीतवत् । किमहं करवाणीति स्मृतः प्राञ्जलिरनवीन ।।
ततोऽब्रवीदाशरथिः मुमन्त्रं स्पृशन करेणोत्तमदक्षिणेन ।
सुमन्त्र शीघं पुनरेव याहि राज्ञः सकाशे भव चाप्रमत्तः ।।
१३
निवर्तग्वेत्युवाचनमेताद्धि कृतं मम । रथं विहाय पद्धयां तु गमियामो महावनम ।। १४
आत्मानं त्वभ्यनुज्ञानमवेक्ष्यातः स सारथिः । मुमन्त्रः पुरुषव्याघ्रमेश्वामिदमब्रवीत् ।। १५
नातिक्रान्तमिदं लोके पुरूषणेह केचिन । तब मभ्रातृभार्यम्य वासः प्राकृतवद्वने ।। १६
न मन्ये ब्रह्मचर्येऽस्ति स्वधीत वा फलोदयः । माईचार्जवयोपि त्वां चेव्यसनमागतम् ॥ १७
सह राघव वैदेह्या भ्रात्रा चैत्र बने वभन । त्वं गतिं प्राप्यसे वीर श्री लोकांन्तु जयन्निव ॥१८