पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८

सप्तचत्वारिंशः सर्गः

यावदेव तु संसुप्तास्तावदेव वयं लघु । रथमारुह्य गच्छामः पन्थानमकुतोभयम् ॥ २१
अतो भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः । स्वपेयुरनुरक्ता मां वृक्षमूलानि संश्रिताः ॥ २२
पौरा ह्यात्मकृताद्दुःखाद्विप्रमोक्ष्या नृपात्मजैः । न तु खल्वात्मना योज्या दुःखेन पुरवासिनः ।। २३
अब्रवील्लक्ष्मणो रामं साक्षाद्धर्ममिव स्थितम् । रोचते मे तथा प्राज्ञ क्षिप्रमारुह्यतामिति ।। २४
अथ रामोऽब्रवीच्छ्रीमान् सुमन्त्रम् युज्यतां रथः । गमिष्यामि ततोऽरण्यं गच्छ शीघ्रमितः प्रभो॥२५
सूतस्ततः संत्वरितः स्यन्दनं तैर्हयोत्तमैः । योजयित्वाथ रामाय प्राञ्जलिः प्रत्यवेदयत् ॥ २६
अयं युक्तो महाबाहो रथस्ते रथिनां वर । त्वरयारोह भद्रं ते ससीतः सहलक्ष्मणः।। २७
तं स्यन्दनमधिष्ठाय राघवः सपरिच्छदः । शीघ्रगामाकुलावर्तां तमसामतरन्नदीम् ।। २८
स संतीर्य महाबाहुः श्रीमाञ्शिवमकण्टकम् । प्रापद्यत महामार्गमभयं भयदर्शिनाम् ॥ २९
मोहनाथ तु पौराणां सृतं रामोऽब्रवीद्वचः । उदड्मुखः प्रयाहि त्वं रथमास्थाय सारथे ॥ ३०
मुहूर्तं त्वरितं गत्वा निवर्तय रथं पुनः । यथा न विद्युः पौरा मां तथा कुरु समाहितः ॥ ३१
रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः । प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत् ॥ ३२
तौ संप्रयुक्तं तु रथं समास्थिता तदा ससीतौ रघुवंशवर्धनौ ।
प्रचोदयामास ततस्तुरङ्गमान् स सारथिर्येन पथा तपोवनम् ।। ३३
ततः समास्थाय रथं महारथः ससारथिर्दाशरथिर्वनं ययौ ।
उदङ्मुखं तं तु रथं चकार स प्रयाणमाङ्गल्यनिमित्तदर्शनात्।। ३४

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसाहस्रिकाया सहितायाम् अयोध्याकाण्डे पौरमोहनं नाम षट्चत्वारिंशः सर्ग:

सप्तचत्वारिंशः सर्गः पौरनिवृत्तिः

प्रभातायां तु शर्वर्या पौराप्स्ते राघवं विना । शोकोपहृतनिश्चेष्टा बभूवुर्हतचेतसः॥ १
शोकजाश्रुपरिध्यूना वीक्षमाणाः समन्ततः । आलोकपि रामस्य न पश्यन्ति स्म दुःखिताः ।। २
ते विषादार्तवदना रहितास्तेन धीमता । कृपणाः करुणा वाचो वदन्ति स्म मनस्विनः ।। ३
धिगस्तु खलु निद्रां तां ययापहृतचेतसः। नाद्य पश्यामहे रामं पृथूरस्कं महाभुजम् ।। ४
कथं नाम महाबाहुः स तथावितथक्रियः । भक्तं जनं परित्यज्य प्रवासं राघवो गतः ॥ ५
यो नः सदा पालयति पिता पुत्रानिवौरसान् । कथं रघूणां स श्रेष्टस्त्यक्त्वा नो विपिनं गतः ।। ६
इहैव निधनं यामो महाप्रस्थानमेव वा । रामेण रहितानां हि किमर्थं जीवितं हितम् ॥ ७