पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८६

श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

ततः सुमन्त्रोऽपि रथाद्विमुच्य श्रान्तान् हयान संपरिवर्त्य शीघ्रम् ।
पीतोदकांस्तोयपरिप्लुताङ्गानचारयद्वै तमसाविदूरे ॥

इत्यार्षे श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकाया सहितायाम् अयोध्याकाण्डे पौरयाचन नाम पञ्चचत्वारिंशः सर्गः

षट्चत्वारिंशः सर्गः पौरमोहनम्

ततस्तु तमसातीरं रम्यमाश्रित्य राघवः । सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत् ।।
इयमद्य निशा पूर्वा सौमित्रे प्रहिता वनम् । वनवासस्य भद्रं ते स नोत्कण्ठितुमर्हसि ॥
पश्य शून्यान्यरण्यानि रुद तीव समन्ततः । यथा निलयमायाद्भिर्निनिलीनानि मृगद्विजैः ॥
अद्यायोध्या तु नगरी राजधानी पितुर्मम । सस्त्रीपुंसा गतानस्माञ्शोचिष्यति न संशयः ॥
अनुरक्ता हि मनुजा राजानं बहुभिर्गुणैः । त्वां च मां च नरव्याघ्र शत्रुघ्नभरतौ तथा ॥
पितरं चानुशोचामि मातरं च यशस्विनीम् । अपि बान्धौ भवेतां तु रुदन्तौ तावभीक्ष्णशः ॥
भरतः खलु धर्मात्मा पितरं मातरं च मे । धर्मार्थकामसहितैर्वाक्यैर्वाश्वासयिष्यति ॥
भरतस्यानृशंसत्वं विचिन्त्य ह पुनः पुनः । नानुशोचामि पितरं मातरं चापि लक्ष्मण ॥
त्वया कार्यं नरव्याघ्र मामनुव्रजता कृतम । अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता ।।
अद्भिरेव तु सौमित्रं वत्स्याम्यद्य निशामिमाम् | एतद्धि रोचते मह्यं वन्येऽपि विविधे सति ॥ १८
एवमुक्त्वा तु सौमित्रि सुमन्त्रमपि राघवः 1 अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह ।
सोऽश्वान सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते । प्रभृतयवसान् कृत्वा बभूव प्रत्यनन्तरः॥
उपास्य तु शिवां सन्ध्यां दृष्ट्वा रात्रिमुपस्थिताम् । रामस्य शयनं चक्रं सूतः सौमित्रिणा सह ॥ १३
तां शय्यां तमसातीरे वीक्ष्य वृक्षदलै: कृताम् । रामः सौमित्रिणा सार्धं सभार्यः सविवेश ह ॥ १४
सभार्यं संप्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणः । कथयामास सूताय रामस्य विविधान् गुणान् ॥ १५
जाग्रतो ह्येव तां रात्रिं सौमित्रेरुदितो रविः । सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान् ॥ १६
गोकुलाकुलतीरायास्तमसाया विदूरतः । अवसत्तत्र तां रात्रिं रामः प्रकृतिभिः सह ॥
उत्थाय तु महातेजाः प्रकृतीस्ता निशाम्य च । अब्रवीद्भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम् ॥ १८
अस्मद्व्यपेक्षान् सौमित्रे निर्व्यपेक्षान् गृहेष्वपि । वृक्षमूलेषु संसुप्तान् पश्य लक्ष्मण सांप्रतम् ॥ १९
यथैते नियमं पौराः कुर्वन्त्यस्मन्निवर्तने । अपि प्राणानसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् ॥