पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८८

श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च । तैः प्रज्वाल्य चितां सर्वे प्रविशामोऽथ पावकम्।। ८
किं वक्ष्यामो महाबाहुरनसूयः प्रियंवदः । नीतः स राघवोऽस्माभिरिति वक्तुं कथं क्षमम् ।। ९
सा नूनं नगरी दीना दृष्ट्वास्मान् राघवं विना । भविष्याति निरानन्दा सस्त्रीबालवयोऽधिका ।। १०
निर्यातास्तेन वीरेण सह नित्यं जितात्मना । रहितास्तेन च पुनः कथं पश्याम तां पुरीम् ।।
इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः । विलपन्ति स्म दुःखार्ता विवत्सा इव धेनवः ।। १२
ततो मार्गानुसारेण गत्वा किञ्चित् क्षणं पुनः । मार्गनाशाद्विपादेन महता समभिप्लुताः ॥ १३
रथस्य मार्गनाशेन न्यवर्तन्त मनस्विनः । किमिदं किं करिष्यामो दैवेनोपहृता इति ।। १४
ततो यथागतेनैव मार्गेण क्लान्तचेतसः । अयोध्यामगमन् सर्वे पुरी व्यथितसज्जनाम् ।। १५
आलोक्य नगरी तां च क्षयव्याकुलमानसा । आवर्तयन्त तेऽऽश्रूणि नयनैः शोकपीडितैः ।।
एषा रामेण नगरीं रहिता नातिशोभते । आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा ।।
चन्द्रहीनमिवाकाशं तोयहीनमिवार्णयम् । अपश्यन्निहतानन्दं नगरं ते विचेतसः ।।
ते तानि वेश्मानि महाधनानि दुःखेन दुःखोपहता विशन्तः ।
नैव प्रजज्ञुः स्वजनं परं वा निरीक्षमाणाः प्रविनष्टहर्षाः ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकाया सहिनायाम् अयोध्याकाण्डे पौरनिवृत्तिर्नाम सप्तचत्वारिंशः सर्गः

अष्टचत्वारिंशः सर्गः पौराङ्गनाविलापः

तेषामेवंविषण्णानां ताडितानामतीव च । बाष्पविप्लुतनेत्राणा सशोकानां मुमूर्षया ।।
अनुगम्य निवृत्तानां रामं नगरवासिनाम् । उद्गतानीव सत्त्वानि बभूवुरमनस्विनाम् ।।
स्वं स्वं निलयमागम्य पुत्रदारैः समावृताः । अश्रूणि मुमुचुः सर्वे बाष्पेण पिहिताननाः ।।
न चाहृप्यन्न चामोदन् वणिजो न प्रसारयन् । न चाशोभन्त पण्यानि नापचन् गृहमेधिनः ॥ ४
नष्टं दृष्ट्वा नाभ्यनन्दन विपुलं वा धनागमम् । पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ।।
गृहे गृहे रुदन्त्यश्च भर्तारं गृहमागतम् । व्यगर्हयन्त दुःखार्ता वाग्भिस्तोत्रैरिव द्विपान् ।।
किं नु तेषां गृहैः कार्यं किं दारैः किं धनेन वा । पुत्रैर्वा किं सुखैर्वापि ये न पश्यन्ति राघवम् ॥ ७
एकः सत्पुरुषां लोके लक्ष्मणः सह सीतया । योऽनुगच्छति काकुत्स्थं रामं परिचरन् वने ।
आपगाः कृतपुण्यास्ताः पद्मिन्यश्च सरांसि च । येषु स्नास्यति काकुत्स्थो विगाह्य सलिलं शुचि ॥९
शोभयिष्यन्ति काकुत्स्थमटव्यो रम्यकाननाः । आपगाश्च महानृपाः सानुमन्तश्च पर्वताः॥
काननं वापि शैलं वा यं रामोऽभिगमिष्यति । प्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनर्चितुम् ॥