पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७८ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे वनवासं हि सड्ख्याय वासांस्याभरणानि च । भार्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥ २४ तथैवायुधजालानि भ्रातृभ्यां कवचानि च । रथोपस्ये प्रतिन्यस्य सचर्म कठिनं च तत् ॥ १५ अथो ज्वलनसंकाशं चमीकरविभूषितम । तमारुरुहतुस्नूणं भ्रातरौ रामलक्ष्मणौ ॥ १६ सीतातृतीयानारुढान् दृष्ट्वा धृष्टमचोदयन् । सुमन्त्रः संमतानश्वान वायुवेगममाञ्जवे ॥ १७ प्रतियाते महारण्यं चिरात्राय राघवे । बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य च ॥ १८ तत् समाकुलमभ्रान्तं मनसंकुपितद्विपप्न । हयशिञ्चिननिर्घोपं पुरम सीन्महास्वनम् ॥ १९ ततः सबालवृद्वा मा पुरी परमपीडिता । राममेकभिदुद्राव धर्मार्ता सलिलं यथा ॥ २० पार्श्वतः पृष्ठनश्चापि लम्बमानास्तदुन्मुखः । बाप्पपूर्गमुखः सर्वे तमृचुर्भशनिस्वनाः ॥ २१ संयच्छ वाजिनां रश्मीन सूत याहि शनैः शनैः । मुखं द्रक्ष्याम रामस्य दुर्दश नो भविष्यति ॥ २२ आयसं हृदयं नूनं राममानुरसंशयन । यद्देवगर्भप्रतिमे वनं याति न भिदते ॥ २३ कृतकृत्या हि वैदेहा छायेगानुगना पतिम् । न जहाति रता धर्मे मेरुमर्कप्रभा यथा ॥ २४ अहो लक्ष्मण सिद्वार्थः सततं प्रियकदिनन । भ्रातरं देवसंकाशं यन्त्वं परिचरिष्यसि ॥ २५ महत्येपा हि ने सिद्धिरेप चाभ्युदयो महान | एप स्वर्गस्य मार्गश्च यदेनमनुगच्छसि ॥ २६ एवं वदन्तन्न मोढं न शेकुबप्पमागतम् । नरास्तमनुगच्छन्तः प्रिर्याभश्वाकुनन्दनम् ॥ २७ अथ राजा वृतः स्त्रीभिर्दीनाभिदीनिचेननः । निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रृवन गृहान ॥ २८ शुश्रुवे चाग्रतः स्त्रीणां रुदत्तीनां महास्वनः । यथा नादः करेणूनां बद्धं महति कुञ्जरे ।, २९ पिता हि राजा काकुन्थः श्रीमान सन्नन्तदाभवन । परिपूर्णः शशी काले ग्रहणोपाठनो यथा ॥ ३० स च श्रीमानचिन्यामा रामा दशरथात्मजः । सूनं संचोदयामास त्वरितं वाह्यनामिति ॥ ३१ रामो याहीनि सृतं नं तिष्ठंति स जनस्तदा । उभयं नाशकत् सूतः कर्तुमध्चनि चोदितः ॥ ३२ निर्गच्छनि महाकहौ रामे पौरजनाश्रुभिः । पतितैरभ्यवहितं प्रशशाम महीरजः ॥ ३३ रुदिताक्षुपरिद्यनं हाहाकृतमचेतनन । प्रयाणं राघवस्यासीन पुरं परमपीडितम ॥ ३४ सुस्त्राव नयनैः स्त्रीणामस्त्रमायामसंभवम् । मीनसंक्षोभचलितैः सलिलं पङ्कजैरिव ॥ ३५ दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतं पुरम् । निपपतैव दुःखेन कृत्तमूल इव द्रुमः ॥ ३६ ततो हलहलाशब्दां जनं रामन्य पृष्ठतः । नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम ॥ ३७ हा रामेति जनाः कैचिद्राममानेति चापरे । अन्तःपुरं ममृद्धं च क्रोशन्तः पर्यदेवयन् ॥ ३८ अन्वीक्षमाणो रामन्तु विषण्णं भ्रान्तचंतनम् । राजानं मातरं चैव ददर्शानुगतौ पथि ॥ ३९