पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७६ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

एवमुक्त्वा तु वचनं वाष्येण पिहितेन्द्रियः । रामेति सकृदेवोक्त्वा व्याहर्तु न शशाक ह ॥ ८ संज्ञां तु प्रतिलभ्यैव मुहूर्तात् स महीपतिः । नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदभब्रवीत् ॥ ९ औपवाझं रथं युक्त्वा त्वमायाहि योत्तमैः । प्रापयैनं महाभागमितो जनपदात् परम् ॥ १० एवं मन्ये गुणवतां गुणानां फलमुच्यते । पित्रा मात्रा च यत् साधुर्वीरो निर्वास्यते वनम् ॥ ११ राशो वचनमाज्ञाय सुमन्त्रः शीव्रविक्रमः । योजयित्वा ययौ तत्र रथमक्ष्वैलंकृतम् ॥ १२ तं रथं राजपुत्राय सूतः कनकभूषितम् । आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः ॥ १३ राजा सत्वरमाहूय व्यापृतं वित्तसंचये । उवाच देशकालज्ञं निश्चितं सर्वतः शुचिः॥ १४ वासांसि च महार्हाणि भूषणानि वराणि च । वर्षाण्येतानि सङ्ख्याय वैदेह्याः क्षिप्रमानय ॥ १५ नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः । प्रायच्छन् सर्वमाहत्य सीतायै "क्षिप्रमेव तत् ॥ १६ सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् । भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः ॥ १७ न्यराजयत वैदेही वेश्म तत् सुविभूषिता । उद्यर्तोऽशुमतः काले भ्बं प्रभेव विवस्वतः ॥ १८ तत्र सीता महाभागा ववन्दे श्वश्रुपादयोः । तां भुजाभ्यां परिष्वज्य अश्रुर्वचनमब्रवीत् ॥ १९ अनाचरन्ती कृपणं मूर्ध्न्युपाघ्राय मैथिलीम । असत्यः सर्वलोकेऽस्मिन मततं सत्कृताः प्रियैः ॥ २० भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः । एप स्वभावो नारीणामनुभूय पुरा सुखम् ॥ २१ अल्पामप्यापदं प्राप्य दुप्यन्ति प्रजहत्यपि । असत्यशीला विकृता दुर्गा अहृदयाः सदा ॥ २२ युवत्यः पापसंकल्पाः क्षणमात्रविरागिणः । न कुलं न कृतं विद्या न दनं नापि संग्रहः ॥ २३ स्त्रीणां गृहाति हृदयमनित्यहृदया हि ताः । साध्वीनां तु स्थितानां हि शीले मन्ये श्रुने स्थिते ॥ २४ स्रीणां पवित्रं परमं पतिरेको विशिष्यते । स त्वया नावमन्तव्यः पुत्रः प्रत्राजिनो वनम् ॥ २५ तब देवसमस्त्वेष निर्धनः सधनोऽपि वा । विज्ञाय वचनं सीता तस्या धर्मार्थसहिनम् ॥ २६ कृताञ्जलिरुवाचेदं श्वक्षृमभिमुखे स्थिता । करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम ॥ २७ अभिज्ञास्मि यथा भर्तुवर्तितव्यं श्रुतं च मे । न मामसज्जनेनार्या संमानयितुमर्हति ॥ २८ धमांद्विचलितुं नाहमलं चन्द्रादिव प्रभा । नातन्त्री' वाद्यते वीणा नाचक्रो वर्तते रथः ॥ २९ नापतिः सुखमेधेत या स्यादपि शतात्मजा । मितं ददाति हि पिता मितं माता मितं सुतः ॥ ३० अमितस्य हि दातारं भर्तारं का न पूजयेत् । साहमेवंगता ज्येष्ठा श्रुतधर्मपरावरा ॥ ३१ आर्ये किमवमन्येय स्त्रीणां भर्ता हि दैवतम् । सीताया वचनं श्रुत्वा कौसल्या हृदयंगमम ॥ ३२ शुद्धसत्त्वा मुमोचाक्षु महसा दुःखहर्षजम् । तां प्राञ्जलिरमिक्रम्य मातमध्येऽतिसत्कृताम् ॥ ३३

१ नातन्त्रार्वाबते इति चेदुपकम्येत स पाठ किष्टः । ३. इदमर्थम् पुना. नास्नि । २. पिहितेक्षण: छ ४ असत्यः प्र ३ त्वयम् छ . समम् . च ५ क्ष्रेङ्का क्ष्च