पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनत्तत्वारिंशः सर्गः १७५ अजीवनोर्हण मया नृशंसा कृता प्रतिक्षा नियमेन तावत् । त्वया हि बाल्यात् प्रतिपन्नमेतत्तन्मां दहेद्वेणुमिवात्मपुष्पम् ॥ ७ रामेण यदि ते पापे किंचित् कृतमशोभनम् । अपकारः क इह ते वैदेह्या दर्शितोऽथ मे ॥ ८ मृगीवोकुटलनयना मृदुशीला तपस्विनी । अपकारं कमिह ते करोति जनकात्मजा ॥ ९ ननु पयांप्तमेतत्ते पापे रामविवासनम । फिमेभिः कृपणैर्भूयः पातकैररि ते कृतैः ॥ १० प्रतिज्ञातं मया तावत्वयोक्तं देवि शृण्यता । रामं यदभिपेकाय त्वमिहागतमत्रवोः ॥ ११ वत्त्वेतत् समतिक्रम्य निरयं गन्तुमिच्छसि । मैथिलोमपि या हि त्वमीक्षसे चीरकसिनीम् ॥ब १२ इतोव राजा विलपन महात्मा शोकस्य नान्तं स ददर्श किंचित् । भृशातुरत्वान्न पपात भूभौ तेनैव पुत्रव्यसने निमग्न: ॥ १३ एवं ब्रुवन्वं पितरं रामः संप्रस्थितो बनम् । अबकिशरममसीनभिदं वचनमत्रवीत् ॥ १४ इयं धार्मिक कौमस्या मम माता यशस्विनी । वृद्वा चाक्षुद्रशी ठ। च न च त्वां देव गहते ॥ १५ मया बिहीनां वरद प्रपन्नां शोकसागरन । अष्टपूर्वव्यसनां भूयः समन्तुमर्हसि ॥ १६ पुत्रशोकं यथा नन्छत्तवया पूज्येन पूजिता । मां हि संचिन्तयन्तीयं त्वयि जीवेत्तपस्विनी ॥ १७ इमां महेन्द्रोपम 'जातगर्थिनीं तथा विधातुं जननी ममार्हसि । यथा वनस्ये मयि शोकशिता न जोषितं न्यस्य यमक्षयं ब्रजेत् ॥ इस्यपि श्रीमद्रामायणे वाल्मीकीय आदिकाव्य चतुशितिसहांस्त्रकायां सहितायाम् अयाध्याकाण्ड जनाकोशो नाम अष्टांत्रिश: सर्गः एकोनचत्वारिंशः सर्गः वन मनापृरूछा रामस्य तु वचः क्षुत्वा मुनिवेपधरे च तप् । समीक्ष्य सह भार्याभी राजा विगतचेतनः ॥ १ नैनं दुःखेन संतप्तः प्रलवैक्षत राघवम । न चैनमभिसंप्रेक्ष्य प्रत्यभ.पत दुर्मनाः ॥ २ स मुहूर्तभिक संज्ञो दुःखितश्च महोपतिः । विललाप महाबाहू राममेवानुचिन्तयन् ॥ ३ मन्ये खलु मया पूर्व विवत्सा बहवः कृनः । प्रणिनो हिसिता वापि तस्मादिदमुपस्थितम् ॥ ४ न त्वेवानागते काले देहाच्च्यवति जीवितम् । कैकेय्या ल्किश्यमानस्य मृत्युर्मम न विद्यते ॥ ५ योऽहं पावकसंकाशं पश्यामि पुरतः स्थितप् । विहाय बसने सूक्ष्मे तापसाच्छदमात्मजम् ॥ ६

1. जातेति पुवेत्यर्रेxx । 2 xxxxxxxxx 2. xxxxx xxxx