पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६४ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे पर्यमप्रथास्तरणं नानारमविभूषितम् । तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि ।। ९ नागः शत्रुजयो नाम मातुलो यं ददौ मम । तं ते 'निष्कसहस्रेण ददामि द्विजपुङ्गव ।। १० इत्युक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत् । रामलक्ष्मणसीतानां प्रयुयोजाशिषः शिवाः ॥ ११ अथ भ्रातरमव्यप्रं प्रियं रामः प्रियंवदम् । सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम् ।। १२ अगस्त्य कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ । अर्चयाहूय सौमित्रे रनैः सस्यमिवाम्बुभिः ॥ १३ तर्पयस्व महाबाहो गोसहश्च मानद । सुवर्ण रजतेश्चैव मणिभिश्च महाधनैः ।। १४ कौसल्यां च सुमित्रां च भक्तः पर्युपतिष्ठति । आचर्यतैत्तिरीयाणामभिरूपश्च वेदवित् ॥ १५ तस्य यानं च दासीच सौमित्रे संप्रदापय । कोशेयानि च वस्त्राणि यावत्तुष्यति स द्विजः ।। १६ सूतश्चित्ररथश्चार्यः सक्याः' सुचिरोषितः । तोषयैनं महाश्च रत्नैर्वर्धनैस्तथा ।। पशुकाभिश्च सर्वाभिर्गवां दशशतेन च । ये चेमे कठकालापा यहवो दण्डमाणवाः ।। १८ नित्यस्वाध्यायशीलत्वान्नान्यत् कुर्वन्ति किंचन । अलसाः स्वादुकामाश्च महतां चापि संमता॥१९ तेषामशीतियानानि रत्नपूर्णानि दापय । शालिवाहसहस्रं च द्वे शते भद्रकांस्तथा ।। २० ध्यानार्थ च सौमित्रे गोसहस्रमुपाकुरु । मेखलोनां महासङ्घः कौसल्यां समुपस्थितः ।। २१ तेषां सहस्र सौमित्रे प्रत्येकं संप्रदापय । अम्बा यथा च सा नन्देत कौसल्या मम दक्षिणाम्।।२२ तथा द्विजातीस्तान् सर्वाल्लक्ष्मणाय सर्वशः । ततः स पुरुषव्याघ्रस्तद्धनं लक्ष्मणः स्वयम् ।।२३ यथोक्तं ब्राह्मणेन्द्राणामददाद्धनदो यथा । अथाब्रवीद्वाष्पकलांस्तिष्तश्चोपजीविनः ।। संप्रदाय बहुद्रव्यमेकैकस्योपजीवनम । लक्ष्मणस्य च यद्वेश्म गृहं च यदिदं मम ॥ २५ अशून्य कार्यमेकैकं यावदागमनं मम । इत्युक्त्वा दुःखितं सर्व जनं तमुपजीविनम् ॥ २६ एवाचेदं धनाध्यक्षं धनमानीयतामिति । ततोऽस्य धनमाजगुः सर्वमेवोपजीविनः ।। स राशिः सुमहांस्तत्र दर्शनोयो ह्यदृश्यत । ततः स पुरुषव्याघ्रस्तद्धनं सहलक्ष्मणः । द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्यो दापयत् । तत्रासीपिकलो गायेत्रिजटो नाम वै द्विजः॥२९ उन्छवृत्तिर्वने नित्यं फालफुद्दाललाङ्गली । तं वृद्धं तरुणी मार्या बालानादाय दारकान् ॥ ३० अत्रवीद्राक्षणं वाक्यं दारिद्रोणाभिपीडिता । अपास्य फालं फुद्दालं कुरुष्व वचनं मम ॥ रामं दर्शय धर्मजज्ञं यदि किंचिदवाप्स्यसि । भार्यया वचनं श्रुत्वा शाटीमाच्छाद्य दुश्च्छदाम् ।। ३२ स प्रातिष्ठत पन्थानं यत्र रामनिवेशनम् । भृग्वाङ्गिर समं दीप्त्या त्रिजटं जनसंसदि । ३३ आ पञ्चमायाः कक्ष्याया नैनं कश्चिदवारयत् । स राजपुत्रमासाद्य विजटो वाक्यमब्रवीत् ।। ३४ निर्धनो बहुपुत्रोऽस्मि राजपुत्र महायशः । उञ्छत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति ।। २४ २७ २८ १. ४. २. गज- . श. म. पियरामः पुनर. याचीमिः स. B. ५. मेखलानामिलादि संपदारवेलवर. मास्ति। १. ब.