पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रयविंशः सर्गः. यमुवाच तदा रामः परिहाससमन्वितम् । गवां सहस्रमप्येकं न तु विश्राणितं मया ॥ ३६ परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसि । स शाटीं त्वरितः कट्यां संभ्रान्तः परिवेष्ट्य ताम् ।। ३७ आविध्य दण्ड चिलेप सर्वप्राणेन वेगितः । स तीर्वा सरयूपारं दण्डस्तस्य कराच्युतः ॥३८ गोबजे बहुसाहले पपातोक्षणसंनिधी । तं परिष्वज्य धर्मात्मा आ तस्मात् सरयूनटात् ॥ ३९ आनयामास ता गोपैखिजटायाश्रमं प्रति । उवाच च ततो रामस्तं गार्म्यमभिसान्त्वयन् ।। मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम ॥ इदं हि तेजस्तव यदुरत्ययं तदेव जिशासितुमिच्छता मया । इमं भवानर्थमाभेप्रचोदितो वृणीष्व किं चेदपरं व्यवस्यति ।। प्रवीमि सत्येन न तेऽस्ति यन्त्रणा धनं हि यान्मम विप्रकारणात । भवत्सु सम्यक्प्रतिपादनेन तन्मयार्जित प्रीतियशस्करं भवेत ॥ ततः सभार्यत्रिजटो महामुनिगवामनीकं प्रतिगृह्य मोदितः । यशोवलप्रीतिसुखोपयाणास्तदशिषः प्रत्यवदन्महात्मनः ॥ म चापि गमः परिपूर्णमानसो महद्वनं धर्मबलैरुषार्जितम् । नियोजयामाम मुहजने चिराग्राहसंमानवचःप्रचोदतः ॥ द्विजः सुरभृन्यजनोऽथवा तदा दरिद्रभिक्षाचरणश्च योऽभवत् । न तत्र कश्चित्र बभूव तपितो यथाईसंमाननदानसंभ्रमः ।। इत्या श्रीमद्रामायण वाल्मीकीये आदि काव्ये च विशांतमहानिकायां संहितायाम अध्याकाण्ड वित्तविश्राणान नाम द्वात्रिंशः सर्गः ४२ ४४ त्रयस्त्रिंशः सर्गः पौरवाक्यम दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु । जम्मतुः पितरं द्रष्टुं सीतया सह राघवौ ॥ १ ततो गृहीते दुष्प्रेक्षे त्वशोभेतां तदायुधे । मालादामभिराबद्धे सीनया समलंकृते । ततः प्रासादहाणि विमानशिखराणि च । अधिरुह्य जनः श्रीमानुदासीनो व्यलोकयत् ॥ न हि रध्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः । आरुह्य तस्मात् प्रासादादीनाः पश्यन्ति राघवम् ॥४ पदातिं सानुजं दृष्टा ससीतं च जनास्तदा । ऊचुर्बहुविधा वाचः शोकोपहतचेतसः ॥ २ ३ ५ 1. भत्र झणसनिधावित पठित्वा "उश्मा पभाना सनिधिर्यत्र । बार्प आनङ्” इति भ्याख्यात २. प्रख्याभ्यामशो मेताम् ख. पदाति जिवछत्रं रामं दृष्ट्वा तदा जनाः गा. . .