पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकनवतितमः सर्गः १०७५ तस्माद्यजामहे सर्वे पार्थिवार्थे दुरासदम् । कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः ।। १३ रोचयन्ति स्म तं यज्ञ रुद्रस्याराधनं प्रति । संवर्तस्य तु राजर्षेः शिष्यः परपुरंजयः ॥ मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत् । ततो यज्ञो महानासीद्बुधाश्रमसमीपतः ।। रुद्रश्च परमं तोषं जगाम सुमहायशाः । अथ यो समाप्ते तु प्रीतः परमया मुदा ॥ १६ उमापतिर्दिजान् सर्वानुवाच इलसन्निधौ । प्रीतोऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः ।। १७ अस्य बाहीपतेश्चैव किं करोमि प्रियं शुभम् । तथा बदति देवेशे द्विजास्ते सुसमाहिताः॥१८ प्रसादयन्ति देवेशं यथा स्यात् पुरुषस्त्विला । ततः प्रीतो महादेवः पुरुषत्वं ददौ पुनः ॥ १९ इलायै स महातेजा दरवा चान्तरधीयत । निर्वृत्ते हयमेधे तु गतश्चादर्शनं हरः ।। द्विजाः ह्यगच्छन् दीर्घदर्शिनः । राजा तु बाहिमुत्सृज्य मध्यदेशे झनुत्तमम् ॥ निवेशयामाम पुरं प्रतिष्ठानं यशस्करम् । शशबिन्दुम्तु राजर्षिाडि परपुरंजयः । प्रतिष्ठाने इलो राजा प्रजापतिसुतो बली । स काले प्राप्तवॉलोकमिलो ब्राह्ममनुनमम् । २३ ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् । ईदृशो वश्वमेधस्य प्रभावः 'पुरुषर्षभौ ॥ स्त्रीभूत: पौरूपं लेभे यच्चान्यदपि दुर्लभम् ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे इलापुरुषत्वप्राप्तिर्नाम नवतितमः सर्गः २० २२ ४ एकनवतितमः सर्गः यज्ञसंविधानम् एनदाळ्याय काकुत्स्थो भ्रातृभ्याममितप्रभः । लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः ।। १ वसिष्ठं वामदेवं च जाबालिमथ काश्यपम् । द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान् ॥ २ एतान् सर्वान् समानीय मन्त्रयित्वा च लक्ष्मण । हयं लक्षणसंपन्नं विमोक्ष्यामि समाधिना ॥ ३ तद्वाक्यं राघवणोक्तं श्रुत्वा त्वरितविक्रमः । द्विजान् सर्वान् समाहूय दर्शयामास राघवम् ॥ ते दृष्टा देवसंकाशं कृतपादाभिवन्दनम् । राघवं सुदुराधर्षमाशीभिः समपूजयन् ॥ प्राञ्जलिः स तदा भूत्वा राघवो द्विजसत्तमान् । आचचक्षेऽश्वमेधस्य ह्यभिप्राय महायशाः ॥ ६ ते तु रामस्य तच्छृत्वा नमस्कृत्वा वृषध्वजम् । अश्वमेधं द्विजाः सः पूजयन्ति स्म सर्वशः ॥ ७ स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम् । अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतोऽभवत्तदा ॥ विज्ञाय कर्म तत्तेषां रामो लक्ष्मणमब्रवीत् । प्रेषयस्व इतं दूतान् सुग्रीवाय महात्मने । यथा महद्रिहरिभिर्बहुभिश्च वौकसाम् । सार्धमागच्छ भद्रं ते ह्यनुभोक्तुं महोत्सवम् ।। १० ८ ९ १. पुरुषर्षम ति, २. उवाच धर्मसंयुक्तमश्चमेषामितं वचः नि.