पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०७६ श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे विभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः । अश्वमेधं महायामायावतुलविक्रमः ॥ राजानश्च महाभागा ये मे प्रियचिकीर्षवः । सानुगाः क्षिप्रमायान्तु यज्ञं द्रष्टुमनुत्तमम् ॥ १२ देशान्तरगता ये च द्विजा धर्मसमाहिताः । आमन्त्रयस्त्र तान् सर्वानश्वमेधाय लक्ष्मण ॥ १३ ऋषयश्च महाबाहो आहूयन्तां तपोधनाः । देशान्तरगताः सर्वे सदाराश्च द्विजातयः ॥ १४ तथैव तालावचरास्तथैव नठनर्तकाः । यज्ञबाटश्च सुमहान् गोमत्या नैमिशे वने ॥ १५ आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम् । शान्तयश्च महाबाहो प्रवर्यन्तां समन्ततः ॥ १६ शतशश्चापि धर्मज्ञाः ऋतमुख्यमनुत्तमम् । अनुभूय महायज्ञं नैमिशे रघुनन्दन । तुष्टः पुष्टश्च सर्वोऽसौ मानितश्च यथाविधि । प्रीति यास्यति धर्मज्ञ शीघ्रमामयतां जनः ॥१८ शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् । अयुतं तिलमुद्गानां प्रयात्वग्रे महाबल ॥ चणकानां कुलित्थानां माषाणां लवणस्य च । अतोऽनुरूपं नेहं च गन्धं संक्षिप्तमेव च ॥ २० सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तसः । अप्रतो भरतः कृत्वा गछत्वग्रे समाधिना ॥ २१ अन्तरा पण्यवीथ्यश्च सर्वे च नटनर्तकाः । सूदा नार्यश्च बहवो नित्यं यौवनशालिनः ॥ २२ भरतेन तु साधं ते यान्तु सैन्यानि चाननः । नैगमा बलवृद्धाश्च द्विजाश्च सुसमाहिताः ॥ २३ कर्मान्तिकान् वर्धकिनः कोशाध्यक्षांश्च नैगमान् । मम मातस्तथा सर्वाः कुमारान्तःपुराणि च ।। काश्चनी मम पनी च दीक्षायां शांश्च कर्मणि । अप्रतो भरतः कृत्वा गच्छत्वमे महायशाः ॥२५ उपकार्या महार्हाश्च पार्थिवानां महौजसाम् । सानुगानां नरश्रेष्ठो न्यादिदेश महाबलः ।। अन्नपानानि वस्त्राणि अनुगानां महात्मनाम् । भरतः स तदा यातः शत्रुघ्नसहितस्तदा ।। २७ वानराश्च महात्मानः सुग्रीवसहितास्तदा । विप्राणां प्रवराः सर्वे चक्रुश्च परिवेषणम् ॥ २८ विभीषणश्च रक्षोभिः स्त्रीभिश्च बहुभिर्वृतः । ऋषीणामुग्रतपसा पूजां चक्रे महात्मनाम् ॥ २९ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे यशसंविधानं नाम एकनवतितमः सर्ग: द्विनवतितमः सर्गः हयचर्या तत् सर्वमखिलेनाशु संस्थाप्य भरताग्रजः । हयं लक्षणसंपन्नं कृष्णसारं मुमोच ह ।। १ ऋत्विग्भिलक्ष्मण सार्धमश्चतन्त्रे नियोज्य च । ततोऽभ्यगच्छत् काकुत्स्थः सह सैन्येन नैमिशम् ।। यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम् । प्रहर्षमतुलं लेभे श्रीमानिति चोऽब्रवीत् ॥ ३ नैमिशे वसतस्तस्य सर्व एव नराधिपाः । आनिन्युरुपहारांश्च तान् रामः प्रख्यपूजयत् ।। ४ न सन्ति। १. याभूमिनिरीक्षकाः ति. २. दीक्षाही यचकर्मणि क. २७, २८, २९-तमानि पधानि च सो ति, ४.