पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०७४ श्रीमद्वाल्मीकिरामायणे उत्तरकाणडे समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः । फलमूलाशनो वीर निवसेह यथासुखम् ॥ स राजा तेन वाक्येन प्रत्याश्वस्तो महामनिः । प्रत्युवाच ततो वाक्यं दीनो मृत्यक्षयाभृशम् ।। त्यक्ष्याम्यहं स्वकं राज्यं नाहं मृत्यैर्विनाकृतः । वर्तयेयं क्षणं ब्रह्मन् समनुज्ञातुमर्हसि ॥ १६ सुतो धर्मपरो ब्रह्मज्येष्ठो मम महायशाः । शशबिन्दुरिति ख्यातः स मे राज्यं प्रपत्स्यते ॥१७ नहि शक्ष्याम्यहं हित्वा भृत्यदारान् सुग्बान्वितान् । प्रतिवक्तुं महातेजः किंचिदप्यशुभं वचः।।१८ तथा ब्रुवति राजेन्द्रे बुधः परममद्भुतम् । सान्त्वपूर्वमुथोवाच वासस्त इह रोचताम् ॥ १९ न संतापस्त्वया कार्यः कादमेय महाबल । संवत्सरोषितस्येह कारयिष्यामि ते हितम् ।। २० तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः । वासाय विदधे बुद्धिं यदुक्तं ब्रह्मवादिना ।। २१ मासं स स्त्री तथा भूत्वा रमयत्यनिशं शुभा । मासे पुरुषभावेन धर्मबुद्धिं चकार सः ।। २२ ततः सा नवमे मासि इला मोमसुतात् सुनम् । जनयामास सुश्री पुरूरवसमूर्जितम् ।। २३ जातमात्रं तु सुश्रोणी पितृहस्ते न्यवेशयत् । बुधस्य समवर्णाभमिलापुलं महाबलम् ।। बुधस्तु पुरुषीभूतं स वै संवत्सरान्तरम् । कथाभी रमयामाम धर्मयुक्ताभिरात्मवान् ।। २५ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे पुरूरवाजननं नाम एकोननवतितमः सर्ग: २४ २ ३ ४ नवतितमः सर्गः इलापुरुषत्वप्राप्तिः तथोक्तवति गमे तु तम्य जन्म तदभुतम् । उवाच लक्ष्मणो भूयो भरतश्च महायशाः ॥ १ इला मा सोमपुत्रस्य सक्सरमथाषिता । अकरोत कि नरश्रेष्ठ तत्वं शमितुमर्हसि ।। तयोस्तद्वाक्यमाधुर्य निशम्य परिपृच्छताः । रामः पुनरुवाचेमा प्रजापतिसुते कथाम् ।। पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् । संवर्त परमोदारमाजुहाव महायशाः ।। च्यवनं भृगुपुत्रं च मुनि चारिष्टनेमिनम् । प्रमादनं मोदकर तथा दुर्वासमं मुनिम् ।। एतान् सर्वान् समानीय वाक्यज्ञस्तत्त्वदर्शिनः । उवाच सर्वान् सुहृदो धैर्येण सुममाहितान् ॥ अयं राजा महाबाहुः कर्दमन्य इलः सुनः । जानीतैनं यथाभूतं श्रयो घस्य विधीयताम् ॥ ७ तेषां संवदतामेवं तमाश्नममुपागमन् । कर्दमन्तु महातेजा द्विजैः सह महात्मभिः ॥ पुलस्त्यश्च ऋतुश्चैव वषटकारस्तथैव च । ओकारश्च महानेजास्तमाश्रममुपागमत् ।। वे सर्वे दृष्टमनसः परम्परसमागमे । हितैषिणो बाहिपतेः पृथग्वाक्यान्ययात्रुवन् ।। १० कर्दमस्त्वनीद्वाक्यं सुतार्थ परमं हितम । द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि ॥ नान्यं पश्यामि भैषज्यमन्तरा वृषभध्वजम् । नाश्वमेधात् परो यज्ञः प्रियश्चैव महात्मनः ॥१२ ८ ९