पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षट्पञ्चाशः सर्ग: १०३३ ततः पितरमामन्त्र्य इक्ष्वाकुं हि मनोः सुतम् । वसिष्ठं वग्यामास पूर्व ब्रह्मर्षिसत्तमम् ॥ अनन्तरं स राजर्षिनिमिरिक्ष्वाकुनन्दनः । अत्रिमङ्गिरसं चैव भृगु चैव तपोधनम् ॥ तमुवाच वसिष्ठम्तु निर्मि राजर्षिसत्तमम् । वृतोऽहं पूर्वमिन्द्रेण अन्तरं प्रतिपालय ॥ अनन्तरं महाविप्रो गौतमः प्रन्यपूरयन् । वसिष्ठोऽपि महातेजा इन्द्रयज्ञमथाकरोत् ॥ निमिस्तु राजा विप्रान्तान् समानीय नराधिपः । अयजद्धिमवत्पार्श्वे म्बपुरस्य समीपतः ।। १२ पञ्च वर्षसहस्राणि राजा दीक्षामुपागमत् । इन्द्रयज्ञावसाने तु वसिष्ठो भगवानृषिः । १३ सकाशमागतो राज्ञो हौत्रं कर्तुमनिन्दितः तदन्तरमथापश्यद्गौतमेनाभिपूरितम् ।। कोपेन महताविष्टो वमिष्ठा ब्रह्मणः सुतः । स राज्ञो दर्शनाकाङ्क्षी मुहूर्त ममुपाविशत् ।।१५ तस्मिन्नहनि राजर्षिनिद्रयापहतो भृशम् । तनो मन्युर्वसिष्ठम्य प्रादुगसीन्महात्मनः ॥ अदर्शनेन राजाह तुमुपचक्रमे । यस्मात्त्वमन्यं वृतवान् मामवज्ञाय पार्थिव ।। चेतनेन विनामृनो देहम्नव भविष्यति । ततः प्रबुद्धी राजर्षिः श्रुत्वा शापमुदाहृतम् ॥ १८ ब्रह्मयोनिमथोवाच संरभ्भात* क्रोधमूर्छिनः । अजानतः गयानस्य क्रोधेन कलुषीकृतः ॥ १९ मुक्तवान् मयि शापामि यमदण्डमिवापरम् । तस्मात्तवापि ब्रह्मर्षे चेतनेन विनाकृतः ॥ २० देहः मुरुचिरप्रग्न्यो भविष्यति न संशयः ।। इति रोपवशादुभौ तदानीमन्योन्यं शपितौ नृपद्विजेन्द्रौ । सहसैव बभूवनुविदेदौ 'तत्तुल्याधिगनप्रभाववन्तौ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्ड निमियासिनशापो नाम पञ्चपञ्चाश: सगः पट्पञ्चाशः सर्गः मैत्रावरुणित्वप्राप्तिः रामस्य भाषितं श्रुन्या लक्ष्मणः परचीरः । उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ।। १ निक्षिप्तदेही काकुत्स्थ कथं तो द्विजपार्थिवौ । पुनर्देहेन संयोग जग्मतुर्देवसंमतौ ॥ २ लक्ष्मणेनैवमुक्तम्तु रामश्चक्ष्वाकुनन्दनः । प्रत्युवाच महातेजा लक्ष्मणं पुरुषर्षभः ॥ ३ तौ परस्परशापेन देहावुत्सृज्य धार्मिकौ । अभूतां नृपविप्रर्षी वायुभूतौ तपोधनौ ।। अशरीरः शरीरस्य कृतेऽन्यस्य महामुनिः । वसिष्ठः सुमहातेजा जगाम पितुरन्तिकम् ।। सोऽभिवाद्य तनः पादौ देवदेवम्य धर्मवित् । पितामहमथोवाच वायुभूत इदं वचः ।। भगवन्निमिशापेन विदेहत्वमुपागमम् । लोकनाथ महादेव अण्डजोऽपि त्वमब्जजैः !! सर्वेषां देहहीनानां महदुःखं भविष्यति । लुप्यन्ते सर्वकार्याणि हीनदेहस्य वै प्रभो ।। 1. तदिति ब्रह्मनाम, ब्राणस्तुल्यतया २. स राजा. ति.। अधिगतप्रभावौति ति. ३. देवदेव महादेव वायुभूतोऽई अण्डज: १. देहस्ते पार्थिवष्यति. ति.। इति ति.पाठः। 130 ६ ८