पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४ ७ श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे लक्ष्मणेनैवमुक्तस्तु राधवः पुनरब्रवीत् । शृणु सौम्य यथापूर्व स राजा शापविक्षतः ॥ अथाध्वनि गतौ विप्रो विज्ञाय स नृगस्तदा । आहूय मन्त्रिणः सर्वान्नैगमान् सपुरोधसः ।। ५ तानुवाच नृगो राजा सर्वाश्च प्रकृतीस्तथा । दुःखेन सुसमाविष्टः श्रयता में समाहितः ॥ ६ नारदः पर्वतश्चैव मम दत्त्वा महद्भयम् । गतौ त्रिभुवनं भद्रौ वायुभूतावनिन्द्रितौ ॥ कुमारोऽयं वसुर्नाम सौंदेवोऽद्याभिषिच्यताम् । श्वनं च यत् सुखस्पर्श क्रियतां शिल्पिभिर्मम ।। यत्राहं संक्षयिष्यामि शापं ब्राह्मणनिःसृतम् । वर्षनमेकं श्वनं तु हिमभमपरं तथा ॥ ग्रीष्मन्न तु सुखस्पर्शमेकं कुर्वन्तु शिल्पिनः । फलवन्तश्च ये वृक्षाः पुष्पवत्यश्च या लताः ॥१० विरोप्यन्तां बहुविधाश्छायावन्तश्च गुल्मिनः । क्रियता रमणीयं च श्वप्राणां सर्वतोदिशम् ।। सुखमत्र वसिष्यामि यावत्कालस्य पर्ययः । पुष्पाणि च मुगन्धीनि क्रियन्तां तेषु नित्यशः ।।१२ परिवार्य यथा मे स्युरध्यर्ध योजनं तथा । एवं कृत्वा विधानं स संदिदेश वसुं तदा ॥ १३ धर्मनित्यः प्रजाः पुत्र क्षत्रधर्मेण पालय । प्रत्यक्षं ते यथा शापो द्विजाभ्यां मयि पातितः ॥१४ नरश्रेष्ठ सरोषाभ्यामपराधेऽपि तादृशे । मा कृथाम्तनुसंतापं मत्कृतेऽपि नरर्षभ ।। १५ कृतान्तः कुशलः पुत्र येनास्मि व्यसानी कृतः । प्राप्तव्यान्येव प्रामोति गन्तव्यान्येव गच्छति ॥ लब्धव्यान्येव लभते दुःखानि च सुखानि च । पूर्व जात्यन्तरे वत्स मया पापं महत् कृतम् ॥ तम्मात् प्राप्तं मया पुत्र' मा विषादं कुरुष्व ह । एवमुक्त्वा नृगस्तत्र सुतं राजा महायशाः ॥ श्व जगाम सुकृतं वासाय पुरुषर्षभ ।। एवं प्रविश्यैव नृपस्तदानीं श्वभ्रं महारत्नविभूषितं तत् । संपादयामास तदा महात्मा शापं द्विजाभ्यां हि रुपा विमुक्तम् ।। इत्यार्षे श्रीमद्रामायणं वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे नृगश्वप्रवेशो नाम चतुष्पञ्चाशः सर्ग: २ ३ पञ्चपञ्चाशः सर्गः निमिवसिष्ठशापः एष ते नृगशाफ्स्य विस्तरोऽभिहितो मया। यद्यस्ति श्रवणे श्रद्धा शृणुष्वेहापरां कथाम् ॥ ? एवमुक्तस्तु रामेण सौमित्रिः पुनरब्रवीत् । तृप्तिराधर्यभूतानां कथाना नास्ति मे नृप । लक्ष्मणेनैवमुक्तस्तु राम इक्ष्वाकुनन्दनः । कथां परमधर्मिष्ठां न्याहर्तुमुपचक्रमे ।। आसीद्राजा निमिर्नाम इक्ष्वाकूणां महात्मनाम् । पुत्रो द्वादशमी' वीर्य धर्मे च परिनिष्ठितः ॥४ स राजा वीर्यसंपन्नः पुरं देवपुरोपमम् । निवेशमामास तदा अभ्याशे गौतमस्य तु ॥ पुरस्य सुकृतं नाम वैजयन्तमिति श्रुतम् । निवेशं यत्र राजपिनि मिश्चके महायशाः ।। ६ तम्य बुद्धिः समुत्पन्ना निवेश्य सुमहापुरम् । यजेय दीर्घसत्रेण पितुः प्रहादयन् मनः ।। ३. हि ति.। १. समाहिताः वि. २. बहाया. ति। ४. मयेत्यादि पुरेसन्तम् प. नास्ति । ५ ७ 1. मड़ प्रत्ययः भाषः।