पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ते सर्वे हृष्टमनसो राजपुत्रा महाबलाः । जग्मुर्महीतलं राम पितुर्वचनयन्त्रिताः॥ १७
गत्वा तु पृथिवीं सर्वामदृष्ट्वाश्वं महाबलाः । योजनायामविस्तारमेकैको धरणीतलम् ॥ १८
बिभिदुः पुरुषव्याघ्रा वज्रस्पर्शसमैनखैः । शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः ॥ १९
भिद्यमाना वसुमती ननाद रघुनन्दन । नागानां वध्यमानानामसुराणां च राघव ॥ २०
राक्षसानां च दुर्धर्षः सत्त्वानां निनदोऽभवत् । योजनानां सहस्राणि षष्टिं तु रघुनन्दन ॥ २१
बिभिदुर्धरणीं वीरा रसातलमनुत्तमम् । एवं पर्वतसंबाधं जम्बूद्वीपं नृपात्मजाः ।। २२
खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः । ततो देवाः सगन्धर्वाः सासुराः सहपन्नगाः॥ २३
संभ्रान्तमनसः सर्वे पितामहमुपागमन् । ते प्रसाद्य महात्मानं विषण्णवदनास्तदा ।। २४
ऊचुः परमसंत्रस्ताः पितामहमिदं वचः । भगवन् पृथिवी सर्वा खन्यते सगरात्मजैः॥ २५
बहवश्च महात्मानो वध्यन्ते जलचारिणः । अयं यज्ञहरोऽस्माकमनेनाश्वोऽपनीयते ।। २६
इति ते सर्वभूतानि हिंसन्ति सगरात्मजाः ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
बालकाण्डे पृथिवीविदारणं नामैकोनचत्वारिंशः सर्गः

चत्वारिंशः सर्गः
कपिलदर्शनम्
देवतानां वचः श्रुत्वा भगवान् वै पितामहः । प्रत्युवाच सुसंत्रस्तान् कृतान्तबलमोहितान् ।। १
यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः । महिषी माधवस्यैषा स एष भगवान् प्रभुः । २
कापिलं रूपमास्थाय धारयत्यनिशं धराम् । तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः ।। ३
पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः । सगरस्य च पुत्राणां विनाशोऽदीर्घजीविनाम् ।। ४
पितामहवचः श्रुत्वा त्रयस्त्रिंशिदरिंदम । देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम् ।। ५
सगरम्य च पुत्राणां प्रादुरासीन्महात्मनाम् । पृथिव्यां भिद्यमानायां निर्घातसमनिःस्वनः ।। ६
ततो भित्त्वा महीं सर्वे कृत्वा चापि प्रदक्षिणम् । सहिताः सागराः सर्वे पितरं वाक्यमब्रुवन् ॥ ७
परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिताः । देवदानवरक्षांसि पिशाचोरगपन्नगाः ॥ ८
न च पश्यामहेऽश्वं तमश्वहर्तारमेव च । किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम् ।। ९