पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रक्षिप्य प्रहसन्नित्यं मज्जतस्तन्निरीक्ष्य वै । एवं पापसमाचारः सज्जनप्रतिबाधकः॥ २१
पौराणामहिते युक्तः पित्रा निर्वासितः पुरात् । तस्य पुत्रोंऽशुमान्नाम असमञ्जस्य वीर्यवान् ।। २२
संमतः सर्वलोकस्य सर्वस्यापि प्रियंवदः । ततः कालेन महता मतिः समभिजायत ॥ २३
सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता। स कृत्वा निश्चयं राम सोपाध्यायगणस्तदा ।।
यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे ॥ २४
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
बालकाण्डे सगरपुत्रजन्म नाम अष्टात्रिंशः सर्गः

एकोनचत्वारिंशः सर्गः
पृथिवीविदारणम्
विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दनः । उवाच परमप्रीतो मुनिं दीप्तमिवानलम् ॥ १
श्रोतुमिच्छामि भद्रं ते विस्तरेण कथामिमाम् । पूर्वको मे कथं ब्रह्मन् यज्ञं वै समुपाहरत् ॥ २
तस्य तद्वचनं श्रुत्वा कौतूहलसमन्वितः । विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव ॥ ३
श्रूयतां विस्तरो राम सगरस्य महात्मनः । शंकरश्वशुरो नाम हिमवानचलोत्तमः ॥ ४
विन्ध्यपर्वतमासाद्य निरीक्षेते परस्परम् । तयोर्मध्ये प्रवृत्तोऽभूद्यज्ञः स पुरुषोत्तम ।। ५
स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि । तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः।। ६
अंशुमानकरोत्तात सगरस्य मते स्थितः । तस्य पर्वणि तं यज्ञं यजमानस्य वासवः ॥ ७
राक्षसीं तनुमास्थाय यज्ञियाश्वमपाहरत् । ह्रियमाणे तु काकुत्स्थ तस्मिन्नश्वे महात्मनः ॥ ८
उपाध्यायगणाः सर्वे यजमानमथाब्रुवन् । अयं पर्वणि वेगेन यज्ञियाश्वोऽपनीयते ॥ ९
हर्तारं जहि काकुत्स्थ हयश्चैवोपनीयताम् । यज्ञच्छिद्रं भवत्येतत्सर्वेषामशिवाय नः ।।
तत्तथा क्रियतां राजन् यथाच्छिद्रः क्रतुर्भवेत् । उपाध्यायवचः श्रुत्वा तस्मिन् सदसि पार्थिवः।।११
षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह । गतिं पुत्रा न पश्यामि रक्षसां पुरुषर्षभाः ।। १२
मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः । तद्गच्छत विचिन्वध्वं पुत्रका भद्रमस्तु वः ॥ १३
समुद्रमालिनीं सर्वां पृथिवीमुपगच्छत । एकैकं योजनं पुत्रा विस्तारमभिगच्छत ॥ १४
यावत्तुरगसंदर्शस्तावत्खनत मेदिनीम् । तं चैव हयहर्तारं मार्गमाणा ममाज्ञया ॥ १५
दीक्षितः पौत्रसहितः सोपाध्यायगणो ह्यहम् । इह स्थास्यामि भद्रं वो यावत्तुरगदर्शनम् ।। १६