पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः । समन्युरब्रवीद्वाक्यं सगरो रघुनन्दन । १०
भूयः खनत भद्रं को निर्भिद्य वसुधातलम् । अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तथ ।। ११
पितुर्वचनमासाद्य सगरस्य महात्मनः । षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन् ।। १२
खन्यमाने ततस्तस्मिन् ददृशुः पर्वतोपमम् । दिशागजं विरूपाक्षं धारयन्तं महीतलम् ।। १३
सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन । शिरसा धारयामास विरूपाक्षो महागजः।। १४
यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः । खेदाच्चालयते शीर्षं भूमिकम्पस्तदा भवेत् ॥ १५
तं ते प्रदक्षिणं कृत्वा दिशापालं महागजम् । मानयन्तो हि ते राम जग्मुर्भित्त्वा रसातलम् ॥ १६
ततः पूर्वा दिशं भित्त्वा दक्षिणां बिभिदुः पुनः । दक्षिणस्यामपि दिशि ददृशुस्ते महागजम् ॥ १७
महापद्मं महात्मानं सुमहत्पर्वतोपमम् । शिरसा धारयन्तं गां विस्मयं जग्मुरुत्तमम् ।। १८
ततः प्रदक्षिणं कृत्वा सगरस्य महात्मनः । षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम् ।। १९
पश्चिमायामपि दिशि महान्तमचलोपमम् । दिशागजं सौमनसं ददृशुस्ते महाबलाः ॥ २०
तं ते प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम् । खनन्तः समुपक्रान्ता दिशं हैमवतीं ततः ।। २१
उत्तरस्यां रघुश्रेष्ठ दहशुर्हिमपाण्डरम् । भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम् ।। २२
समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम् । षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम् ।। २३
ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम् । रोषादभ्यखनन् सर्वे पृथिवीं सगरात्मजाः॥ २४
ते तु सर्वे महात्मानो भीमवेगा महाबलाः । दहशुः कपिलं तत्र वासुदेवं सनातनम् ॥ २५
हयं च तस्य देवस्य चरन्तमविदूरतः । प्रहर्षमतुलं प्राप्ताः सर्वे ते रघुनन्दन ॥ २६
ते तं हयहरं ज्ञात्वा क्रोधपर्याकुलेक्षणाः । खनित्रलाङ्गलधरा नानावृक्षशिलाधराः ।। २७
अभ्यधावन्त संक्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन् । अस्माकं त्वं हि तुरगं यज्ञियं हृतवानसि ।। २८
दुर्मेधस्त्वं हि संप्राप्तान् विद्धि नः सगरात्मजान् । श्रुत्वा तु वचनं तेषां कपिलो रघुनन्दन ॥ २९
रोषेण महताविष्टो हुंकारमकरोत्तदा । नतस्तेनाप्रमेयेण कपिलेन महात्मना ।। ३०
भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
बालकाण्डे कपिलदर्शनं नाम चत्वारिंशः सर्गः

एकचत्वारिंशः सर्गः
सगरयज्ञसमाप्तिः
पुत्रांश्चिरगताञ्ज्ञात्वा सगरो रघुनन्दन । नप्तारमब्रवीद्राजा दीप्यमानं स्वतेजसा ॥ १
शूरश्च कृतविद्यश्च पुर्वैस्तुल्योऽसि तेजसा । पितॄणां गतिमन्विच्छ येन चाश्वोऽपवाहितः।। २