पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्विचत्वारिंशः सर्गः २०१९ श्रुत्वा रामो मुदा युक्तो बभूव नृपसत्तमः ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे पुष्पकपुनरभ्यनुज्ञा नाम एकचत्वारिंशः सर्गः ३ ४ ६ ७ द्विचत्वारिंशः सर्गः रामसीताबिहारः स विसृज्य ततो रामः पुष्पकं हेमभूषितम् । प्रविवेश महाबाहुरशोकबनिकां तदा ॥ १ चन्दनागरुचूतैश्च तुङ्गकालेयकैरपि । देवदारुवनैश्वापि समन्तादुपशोभिताम् ।। चम्पकाशोकपुन्नागमधूकपनसासनैः । शोभितां पारिजातैश्च विधूमज्वलनप्रभैः ।। लोध्रनीपार्जुनै गैः सप्तपर्णातिमुक्तकैः । मन्दारकदलीगुल्मलताजालसमावृताम् ।। प्रियङ्गुभिः कदम्बैश्च तथा च बकुलैरपि । जम्बूभिर्दाडिमैश्चैव कोविदारैश्च शोभिताम् ।। सर्वदा कुसुमै रम्यैः फलवद्भिर्मनोरमैः । दिव्यगन्धरसोपेतैस्तरुणाङ्कुरपल्लवैः ।। तथैव तरुभिर्दिव्यैः शिल्पिभिः परिकल्पितैः । चारुपल्लवपुष्पाढयर्मत्तभ्रमरसंकुलैः ।। कोकिलैर्भृङ्गराजैश्च नानावर्णश्च पक्षिभिः । शोभितां शतशश्चित्रां चूतवृक्षावतंसकैः ।। शानकुम्भनिभाः केचित् केचिदमिशिस्वीपमाः । नीलाजननिभाश्चान्ये भान्ति तत्रत्यपादपाः ।। सुरभीणि च पुष्पाणि माल्यानि विविधानि च । दीर्घिका विविधाकाराः पूर्णाः परमवारिणा ।। माणिक्यवृतसोपानाः स्फटिकान्तरकुट्टिमाः । फुल्लपोत्पलवनाश्चक्रवाकोपशोभिताः ॥ ११ दात्यूहशुकसंघुष्टा हंमसारसनादिनाः । तरुभिः पुष्पवद्भिश्च तीरजैरुपशोभिताः ।। १२ प्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः । तत्रैव च वनोद्देशे वैदूर्यमणिसंनिभैः ।। १३ शाद्वलैः परमोपेतां पुष्पिनद्रुमकाननाम् । तत्र संघर्षजातानां वृक्षाणां पुष्पशालिनाम् ।। प्रस्तराः पुष्पशबला नभस्तारागणैरिव । नन्दनं हि यथेन्द्रस्य ब्रामं चैत्ररथं यथा ॥ तथाभूतं हि रामस्य काननं संनिवेशनम् । बहासनगृहोपेतां लतागृहसमावृताम् ॥ अशोकवनिका स्फीतां प्रविश्य रघुनन्दनः। आसने च शुभाकारे पुष्पप्रकरभूषिते ।। कुथास्तरणसंवीते रामः संनिषसाद ह । सीतामादाय हस्तेन मधु मैरेयकं शुचि ।। पाययामास काकुत्स्थः शचीमिव पुरन्दरः । मांसानि च सुमृष्टानि फलानि विविधानि च ॥१९ रामस्याभ्यवहारार्थ किंकरास्तूर्णमाहरन् । उपानृत्यश्च राजानं नृतगीतविशारदाः ।। २० बालाश्च रूपवत्यन्ध स्त्रियः पानवशानुगाः । उपानृत्यन्त काकुत्स्थं नृत्यगीतविशारदाः ॥ २१ मनोऽभिरामा रामास्ता रामो रमयतां वरः। रमयामास धर्मात्मा नित्यं परमभूषितः ।। १. तत्र स. ति। किनरोपरिवारिताः। दक्षिणा रूपपत्यश्च स्त्रियः पानवशं गताः॥ इति इत्येकं पयं क, च. प्रक्षिप्तम् । ३. इदमर्ध, इतः पूर्व. अप्सरोगण संघाश्च ति. वर्तते । २२ २. लताशन. ति।