पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे १००६ ममान्तिकचरो नित्यं भव वानरपुङ्गव । कंचित् कालमिहास्स्व त्वं तव श्रेयो भविष्यति ॥ १३॥ एवमुक्तः स चैतेन ब्रह्मणा वानरोत्तमः | प्रणम्य शिरसा पादौ देवदेवस्य राघव ॥१४॥ उक्त- वॉल्लोककर्तारमादिदेवं जगद्गुरुम् | यथाज्ञा पयसे देव स्थितोऽहं तव शासने ॥ १५ ॥ एवमुक्त्वा हरिदेवं ययौ हृष्टमनास्तदा । स तदा द्रुमषण्डेषु फलपुष्यघनेषु च ॥ १६॥ ब्रह्मप्रतिबलः शैध्ये वने बलकृताशनः । कचिन्मधूनि मुख्यानि चिन्वन् पुष्पाण्यनेकशः ||१७|| दिने दिने च सायाहे ब्रह्मणोऽन्तिकमागमत् । गृहीत्वा राम मुख्यानि पुष्पाणि च फलानि च ॥ १९ ॥ ब्रह्मणो देवदेवस्य पादमूले न्यवेदयत् । एवं तस्य गतः कालो बहु पर्यटतो गिरिम् ॥ १९॥ कस्य चित्त्वथ कालम्य समतीतस्य राघव | ऋक्षराड्- वानर श्रेष्ठस्तृष्णया परिपीडितः ||२९|| उत्तरं मेरुशिखरं गतस्तत्र च दृष्टवान् | नानाविहंग- संघुष्टं प्रसन्नसलिलं सरः ||२१|| चलत्केसर- मात्मानं कृत्वा तस्य तटे स्थितः । ददर्श तस्मिन् सरसि वक्त्रच्छायामथात्मनः ॥२२॥ कोऽय- मस्मिन् मम रिपुर्वसत्यन्तर्जले महान् । रूपं चान्तर्गतं तत्र वीक्ष्य तत्पाथसो हरिः ॥२३॥ क्रोधाविष्टमना शेष नियतं मावमन्यते । तदस्य दुष्टभावस्य कर्तव्यो निग्रहो मया ||२४|| एवं संचिन्त्य मनसा स वै वानरचापलात । आपत्य चापनत्तस्मिन् हृदे वानरसत्तमः || २५ ॥ उत्प्लुत्य तस्मात् सरस उत्थितः लवगः पुनः । तस्मिन्नेव क्षणे राम स्त्रीत्वं प्राप स वानरः ॥२६॥ मनोज्ञरूपा सा नारी लावण्य- ललिता शुभा । विस्तीर्णजघना सुनिलकुञ्चि- तमूर्धजा ||२७|| मुग्धा सस्मितवक्त्रा च पीन- स्तनतटा शुभा हृदतीरस्थिता भाति ऋजु- यष्टिर्हता यथा ||२८|| त्रैलोक्यसुन्दरी कान्ता सर्वचित्तप्रमाथिनी । लक्ष्मीव पद्मरहिता चन्द्र- ज्योत्स्नेव निर्मला ॥२९॥ रूपेणाप्यभवत् सा तु श्रीगर्दिवी उमा यथा । द्योतयन्तो दिशः सर्वास्तत्राभूत् सा वराङ्गना ||३०॥ एतस्मि नन्तरे देवो निवृत्तः सुरनायकः | पादावुपास्य देवम्य ब्रह्मणस्तेन वै प्रथा ॥ ३१ ॥ तस्यामेव च वेलायामादित्योऽपि परिभ्रमन् । तस्मिन्नेच वने सोऽभूद्यस्मिन् सा तनुमध्यमा ॥ ३२ ॥ युगपत् सा तदा दृष्टा देवाभ्यां सुरसुन्दरी । कन्दर्पवशगौ तौ तु दृट्वा तां संचभूवतुः ॥३३॥ ततः क्षुभितसर्वाङ्गो सुरन्द्रतपनावुभौ । तद्रू- पमद्भुतं दृष्ट्वान्याजितौ धैर्यमात्मनः ॥ ३४ ॥ ततस्तस्यां सुरेन्द्रेण स्कन्नं शिरसि पातितम् । अनासाद्यैव तां नारी संनिवृत्तमथोऽभवत् ॥ ३५ ॥ ततः सा वानरपति प्रासूत बलशा- लिनम् | अमोघरनस्त्वात्तस्य वासवस्य महा- त्मनः ॥३६॥ वालेषु पतितं बीजं वाली नाम बभूव ह । भास्करेणापि तम्यां वै कन्दर्पवश- वर्तिना ||३७|| बीजं तु सिक्तं श्रीवायां विधा- नमनुवर्तिना | तेनापि सा वरतनुनक्का किं चिद्वचः शुभम् ॥ ३८॥ निवृत्तमदनश्चात्र सूर्योऽपि समपद्यत | श्रीवायां पतिते बीजे सुश्रीवः समजायत ||६९|| एवमुत्पाद्य तौ वीरौ वानरेन्द्रौ महाबलौ | दत्त्वा तु काश्चनीं मालां वानरेन्द्रस्य वालिनः ॥ ४० ॥ अक्षय्यां गुण- संपूर्णा शकस्तु त्रिदिवं ययौ । सूर्योऽपि स्वसुतस्यैनं निरूप्य पवनात्मजम् ॥ ४१ ॥ 1