पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१००१
पञ्चत्रिंशः सर्गः


वायुप्रकोपामृतानि निरुच्छासानि सर्वतः । सन्धिभिर्भिद्यमानैश्च काष्ठभूतनि जज्ञिरे ॥ ५१ ॥
निःस्वाध्यायवषट्कारं निष्क्रियं धर्मवर्जितम् । वायुप्रकोपात् त्रैलोक्य निरयस्थमिवाभवत् ॥५२
ततः प्रजाः सगन्धवाः सदेवासुरमानुषाः । प्रजापतिं समाधावन् दुःखिताश्च सुखेच्छया ॥५३ ॥
ऊचुः प्राञ्जलयो देवा महोदरनिभोदराः। त्वया नु भगवन् सृष्टाः प्रजा नाथ चतुर्विधाः ॥५४ ॥
त्वया दत्तोऽयमस्माकमायुषः पवनः पतिः।।सोऽस्मान् प्राणेश्वरो भूत्वा कस्मादेषोऽऽद्य सत्तम्॥५५॥
रुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः । तस्मात् त्वां शरणं प्राप्ता वायुनोपहना वयम् ॥५६॥
वायुसंरोधजं दुःखमिदं नो नुद दुःखहन् । एतत् प्रजानां श्रुत्वा तु प्रजनाथः प्रजापतिः ॥५७॥
कारणादिति चोत्तवासौ प्रजाः पुनरभाषात । यस्मिंश्च कारणे वायुश्चक्रो च रुरोध च ॥५८॥
प्रजाः शृणुध्वं तत् सर्वं श्रोतव्यं चात्मनः क्षमम् । पुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः ॥५९,
राहोर्वचनमाम्थाय ततः स कुपितोऽनिलः । अशरीरः शरीरेषु वायुश्चरति पालयन् ॥६०॥
शरीरं हि विना वायुं समतां याति दारुभिः । वायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत् ६१॥
वायुना संपरित्यक्तं न सुखं विन्दते जगत् । अद्यैव च परित्यक्तं वायुना जगदायुषा ॥६२॥
अद्यैव ते निरुच्छ्वासा:काष्ठकुड्योपमाः स्थिताः । तद्यामस्तत्र यत्राम्ते मारुतो रुक्प्रदो हि नः ॥
मा विनाशं गमिष्याम अप्रसाद्यादितेः सुता:॥ ततः प्रजाभिः महितः प्रजापतिः सदेवगन्धर्वभुजङ्गगुह्यकैः।
जगाम तत्रास्यति यत्र मारुनः सुतं सुरेन्द्राभिहतं प्रगृह्य सः ॥६४ ॥
ततोऽर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदागतेः ।
चतुमुखे वीक्ष्य कृपामथाकरोत् सदेवगन्धर्वर्षियक्षराक्षसैः ॥ ६५॥

इत्यार्चे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहनिकायां

संहितायाम उमरकाण्डे हनूमदुत्पत्तिनम पचत्रिंशः सर्गः


षट्त्रिंशः सर्गः

ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः । शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः ॥१॥
चलल्कुण्डलमौलिस्त्रक् तपनीयविभूषणः । पादयोर्न्यपतद् वायुस्वित्रि पस्थाय वेधसे ॥२॥
तं तु वेदविदा तेन लम्बाभरणशोभिना । वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् ॥३॥
स्पृष्टमात्रस्ततः सोऽथ सलीलं पद्मयोनिना । जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान् ॥।४॥
प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा । चचार सर्वभूतेषु सन्निरुद्धं यथा पुरा ॥५॥
मरुद्रोधाद्विनिर्मुक्तास्ताः प्रजा मुदिताभवन् । शीतवातविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः ॥६॥