पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१००२
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे

ततस्त्रियुग्मस्त्रिककुत् त्रिधामा त्रिदशार्चितः । उवाच देवता ब्रह्मा मारुतप्रियकाम्यया ॥
भो महेन्द्रेशवरुणप्रजेश्वरधनेश्वराः । जानतामपि वः सर्वं वक्ष्यामि श्रूयतां हितम् ॥
अनेन शिशुना कार्य कर्तव्यं वो भविष्यति । तद्ददध्वं वरान् सर्वे मारुतस्यास्य तुष्टये ॥ ९॥
ततः सहस्रनयनः प्रीतियुक्तः शुभाननः । कुशेशयमयीं मालामुत्क्षिप्येदं वचोऽब्रवीत् ॥ १० ॥
मत्करोत्सृष्टवज्रेण हनुरस्य यथा हतः । नाम्ना वै कपिशार्दूलो भविता हनुमानिति ।।
अहमस्य प्रदास्यामि परमं वरमद्भुतम् । इतः प्रभृति वज्रम्य ममावध्यो भविष्यति ॥। १२ ॥
मार्तण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः । तेजसोऽस्य मदीयस्य ददामि शतिकां कलाम् ।। १३
यदा तु शास्त्राण्यध्येतुं शक्तिरस्य भविष्यति । नदास्य शास्त्रं दास्यामि येन वाग्मी भविष्यति ।।
न चाम्य भविता कश्चित सदृशः शास्त्रदर्शने । वरुणश्च वरं प्रादानास्य मृत्युभविष्यति ॥१५
वर्षायुतशतेनापि मत्पाशादुदकादपि । यमो दण्डादवध्यत्वमरोगित्वं च नित्यशः ।।
वरं ददामि संतुष्ट अविषादं च संयुगे। गदेयं मामिका चैनं संयुगे न वधिप्यति ।।
इत्येवं धनदः प्राह तदा ह्येकाक्षिपिङ्गलः । मत्तो मदायुधानां च न वध्योऽयं भविष्यति ॥१८
इत्येवं शंकरेणपि दत्तोऽस्य परमो वरः । सर्वेषां ब्रह्मदण्डानामवध्योऽयं भविष्यति ॥
दीर्घायुश्च महात्मा च इति ब्रह्माब्रवीद्वचः । विश्वकर्मा च दृष्टैनं बालसूर्योपमं शिशुम् ॥ २०
शिल्पिनां प्रवरः प्रादाद्वरमस्य महामतिः । मत्कृतानि च शस्त्राणि यानि दिव्यानि संयुगे ।।
तैरवध्यत्वमापन्नश्चिरजीवी भविष्यति । ततः सुगणां तु वर् दृष्ट्वा ह्येनमलङ्गकृतम् ।। २२
चतुर्मुखम्तुष्टमना वायुमाह जगद्गुरुः । अमित्राणां भयकरो मित्राणामभयंकरः ।। २३
अजेयो भविता पुत्रस्तव मारुत मारुतिः । कामरूपः कामचारी कामगः प्लवतां वरः ।।
भवत्यन्याहनगतिः कीर्तिमांश्च भविष्यति । रावणोत्सादनार्थानि रामप्रियकराणि च ।।
रोमहर्षकराण्येष कर्ता कर्माणि संयुगे। एवमुक्त्वा तमामन्त्र्य मारुतं त्वमरैः सह ।।
यथागतं ययुः सर्वे पिनामहपुरोगमाः । सोऽपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत ।। २७
अञ्जनायास्तमाचख्यौ वग्दतं विनिर्गतः । प्राप्य राम वरानेष वरदानसमन्वितः ।। २८
बलेनात्मनि संस्थेन सोऽपूर्यत यथार्णवः । तरसा पूर्यमाणोऽपि तदा वानरपुङ्गवः ।। २९
आश्रमेषु महर्षीणामपराध्यति निर्भयः । सुग्भाण्डान्यग्निहोत्रं च वल्कलाजिनसंचयान् ॥ ३०
भग्न विच्छिन्नविध्वस्तान् संशान्तानां करोत्ययम् । एवंविधानि कर्माणि प्रावर्तत महाबलः ॥३१
सर्वेषां ब्रमदण्डानामवध्यः शंभुना कृनः । जानन्त ऋषयस्तं वै क्षमन्ते तस्य शक्तितः ॥ ३२
यथा केसरिणा त्वेष वायुना सोऽञ्जनासुतः । प्रतिषिद्धोऽपि मर्यादा लङ्घयतेव वानरः ।। ३३
ततो महर्षयः क्रुद्धा भृन्वाङ्गितरसवंशजाः । शेपुरेनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः ।।
धाधसे यत् समाश्रित्य बलमस्मान् प्लवङ्गम । तद्दीर्घकालं वेतासि नास्माकं शापमोहितः । ३५