पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०००
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे

शालिशूकनिभाभासं प्रासूतामुं तदाञ्जना । फलान्याहर्तुकामा वै निष्क्रान्ता गहनेचरा' ॥२१॥
एष मातुर्वियोगाञ्च क्षुधया च भृशांर्दितः। रुरोद शिशुरत्यर्थं शिशुः शरवणे यथा ॥२२॥
तदोघन्तं विवस्वन्तं जपापुष्पोत्करोपमम् । ददर्श फललोभाञ्च ह्युत्पपात रविं प्रति ॥।२३॥
बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् । ग्रहीतुकामो बालार्क प्लवतेऽम्बरमध्यगः ॥२४॥
एतस्मिन् प्लवमाने तु शिशुभावे हनूमति । देवदानवयक्षाणां विस्मयः सुमहानभूत् ॥२५॥
नाप्येवं वेगवान् वायुर्गरुडो वा मनस्तथा । यथायं वायुपुत्रस्तु क्रमतेऽम्बरमुत्तमम् ॥२६॥
यदि तावच्छिशोरस्य त्वीदृशो गतिविक्रमः । यौवनं बलमासाद्य कथंवेगो भविष्यति ॥२७॥
तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः । सूर्यदाहभयाद्रक्षंस्तुपारचयशीतलः ॥२८॥
बहुयोजनसाहस्रं क्रामन्नेष गतोऽम्बरम् । पितुर्बलाञ्च बाल्याच्च भास्कराभ्याशमागतः ॥२९॥
शिशुरेष त्वदोपज्ञ इति मत्वा दिनेश्वरः । कार्य चात्र समायत्तमित्येवं न ददाह सः ॥३०॥
यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः । तमेव दिवसं राहुर्जिघृक्षति दिवाकरम् ॥३१॥
अनेन स परामृष्टो राम सूर्यरथोपरि । अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्राकमर्दनः ॥३२॥
स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः । अब्रवीभ्रुकुटि कृत्वा देवं देवगणैर्वृतम् ॥।३३॥
बुभुक्षापनयं दत्त्वा चन्द्रर्कै मम वासव । किमिदं तत्त्यया दत्तमन्यस्य बलवृत्रहन् ॥३४॥
अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः । अथान्यो राहुरासाद्य जग्राह सहसा रविम् ॥३५॥
स राहोर्वचनं श्रुत्वा वासवः संभ्रमान्वितः । उत्पपातासनं हित्वा चोद्वहन काश्चनीं स्रजम् ॥३६॥
ततः कैलासकृटाभं चतुर्दन्तं मदस्वरम् । शृङ्गारधारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् ॥३७॥
इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम् ।प्रायाद्यत्राभवत् भवत् सूर्यः स्नुहानेन हनुमता ॥३८॥
अथातिरभसेनागाद्रा हुरुत्सृज्य वासवम् । अनेन च स वै दृष्टः प्रधावञ्शैल कूटवत ॥३९॥
ततः सूर्यं समुत्सृज्य राहुं फलमवेक्ष्य च । उत्पपात पुनव्योम ग्रहीतुं सिंहिकासुतम् ॥४०॥
उत्सृज्यार्कमिमं राम प्रधावन्तं प्लसङ्गमम् । अवेक्ष्यैवं परावृत्य मुखशेषः पराङ्मुग्वः ॥४१॥
इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः । इन्द्र इन्द्रेति संत्रासान्मुहुमुहुरभाषत ॥४२॥
राहोर्विक्रोशमानस्य प्रागवालक्षितं स्वरम् । श्रुत्वेन्द्रोवाच मा भैषीरहमेनं निषूदये ॥४३॥
ऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि । फलं मत्वा हस्तिराजमभिदुद्राव मारुतिः ॥४४॥
तथास्य धातो रूपमैरावतजिघृक्षया । मुहूर्तमभवद्धोरमिन्द्राग्न्योरिव भास्वरम् ॥४५॥
एवमाधावमानं तु नातिक्रुद्धः शचीपतिः । हस्तान्तादतिमुक्तेन कुलिशेनाभ्यताडयत् ॥४६॥
ततो गिरौ पपातैष इन्द्रवज्राभिताडितः । पतमानस्य चैतस्य वामो हनुरभज्यत ॥४७॥
तस्मिंस्तु पतिते बाले वज्रताडनविहले । चुक्रोधेन्द्राय पवनः प्रजानामहिताय सः ॥४८॥
प्रचारं स तु संगृह्य प्रजास्वन्तर्गतः प्रभुः । गुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः ॥४९॥
विण्मूत्राशयमावृत्य प्रजानां परमार्तिकृत । रुरोध सर्वभूतानि यथा वर्षाणि वासवः ॥५०॥