पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वात्रिंशः सर्गः ४१ ४४ ४५ ४६ ५०

सनक्रमीनमकरसमुद्रस्येव निखनः । रावणम्य तु तेऽमात्याः प्रहस्तशुकसारणाः ॥
कार्तवीर्यबलं कुद्धा निर्दहन्ति म्म तेजसा । अर्जुनाय तु तत् कर्म रावणस्य समन्त्रिणः ॥३७
क्रीडमानाय कथितं पुरुषैर्द्वाररक्षिभिः । श्रुत्वा न भेतव्यमिति स्त्रीजनं तं ततोऽर्जुनः ॥ ३८
उत्ततार जलातम्माद्गङ्गातोया दिवाञ्जनः । क्रोधदूषितनेत्रन्तु म ततोऽर्जुनपावकः ॥
प्रजज्वाल महाघोरो युगान्त इव पावकः । स तूर्णनरमादाय वरहेमाङ्गदो गदाम् ||
अभिदुद्राव रक्षांसि तमांसीव दिवाकर | बाहुविक्षेपकरणां समुद्यम्य महागदाम् ॥
गारुडं वेगमास्थाय चापपातैव सोऽर्जुनः | तस्य मार्ग समारुध्य विन्ध्योऽर्कस्येव पर्वतः ॥ ४२
स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः । ततोऽस्य मुसलं घोरं लोहबद्धं महोद्धतः ॥
प्रहम्त प्रेषयन् क्रुद्धो रगम च यथाम्बुदः । तम्या मुसलस्या मिरशोकापीडसंनिभः ॥
प्रहस्तकरमुक्तस्य बभूव प्रदहन्निव । अथायान्तं तु मुसलं कार्तवीर्यस्तदार्जुनः ॥
निपुणं चञ्चयामास सगढोगदविक्रमः । ततस्तमभिदुद्राव प्रहन्तं हैहयाधिपः ||
श्रामयण गढां गुर्वी पञ्चबाहुशतोच्छ्याम् । तथाहतोऽतिवेगेन ग्रहस्तो गदया तदा ॥ ४७
निपपात हत· शैलो वज्रिबहतो यथा । प्रहस्तं पतिनं दृष्ट्वा मारीचशुकसारणाः ॥
समहोदरभृम्राक्षा पसृष्टा रणाजिगत | अपकान्तेष्चमात्येषु प्रहस्ते विनिपातिते ॥
रावणोऽभ्यद्रवत्तर्णमर्जुनं नृपमत्तमम् | सहस्रबाहोम्तयुद्धं विंशद्वाहोश्च दारुणम ||
नृपराक्षमयोम्तत्र चारब्धं रोमहर्पणम् | सागराविव संरब्धौ चलन्मूला विवाचलौ ॥
तेजोयुक्ता विवादित्यो मदहन्नाविधानलौ | बलोन्नतौ यथा नागौ वासिनार्थे यथा वृषौ ॥ ५२
मेघाविय विनर्दन्तौं सिंहाविव बलोत्कटौ | रुद्रकालाविव क्रुद्धौ तदा तौ राक्षसार्जुनौ ॥ ५३
परस्परं गदाभ्यां तौ ताडयामासतुर्भृशम् । वज्रप्रहारानचला यथा घोरान् विषेहिरे ॥
गदामहारांम्तौ तत्र सेहाते नगराक्षसौ | यथाशनिरवेभ्यन्तु जायतेऽथ प्रतिश्रुतिः ॥
तथा तयोर्गदापोथर्दिश. सर्वात अर्जुनस्य गदा सा तु पात्यमानाहितोरसि ॥ ५६
काञ्चनाभं नमश्चक्रे विद्युत्सौदामिनी यथा । तथैव रावणेनापि पात्यमाना मुहुर्मुहुः ॥
अर्जुनोरसि निर्भाति गोल्केव महागिरौ । नार्जुनः खेद्रमायाति न राक्षसगणेश्वरः ॥
इदमासीत्तयोर्युद्धं यथा पूर्व बलीन्द्रयो । शृङ्गैर्महर्षभौ' यद्वद्दन्तामैरिव कुञ्चरौ ||
परस्परं तौ निघ्नन्तौ नरराक्षससत्तमौ । ततोऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा ||
स्तनयोरन्तरे मुक्ता रावणम्य महोरसि । वरदानकृनत्राणे सा गदा रावणोरसि ||
दुर्बलेन यथावेगं द्विधा भूत्वापतत् क्षितौ । स त्वर्जुनप्रमुक्तेन गदापातेन रावणः ॥
अपासर्पद्धनुर्मात्रं निषसाद च निष्टनन् । स विह्वलं तदालक्ष्य दशग्रीवं ततोऽर्जुनः ॥
सहसोत्पत्य जग्राह गरुत्मानिव पन्नगम् । स तं बाहुसहस्रेण बलादृश्य दशाननम् ||
बबन्ध बलवान् राजा बलिं नारायणो यथा । बन्यमाने दशग्रीवे सिद्धचारणदेवताः ॥ ६५

५१ ५४ ५५ ५८ 9. रिव वृषा युद्धथन् ति । ६२