पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रक्षितषु प्रथमः सर्गः ९६९ । राक्षसेश्वर । प्रविश त्वं महासत्वं संग्रामं कुरु मा चिरम् ॥ २६ ॥ एवमुक्तो दशमीव: प्रविवेश यतो बलिः । स विलोक्याथ लवेश महासं जहास च ॥ २७ ॥ आदित्य इव दुष्पेक्ष्यः स्थितो दानवसत्तमः । अथ संदर्श- नादेव बलि विश्वरूपवान् ॥२८॥ स गृहीत्वा च तद्रक्षो सुत्सङ्गे स्थाप्य चाब्रवीत् | दशग्रीव महाबाहो कं ते कामं करोम्यहम् ॥ २९ ॥ किमागमनकृत्यं ते ब्रूहि त्वं राक्ष- सेश्वर । एवमुक्तस्तु बलिना रावणो वाक्य- मब्रवीत् ॥ ३० ॥ श्रुतं मया महाभाग बद्धस्त्वं विष्णुना पुरा । सोऽहं मोचयितुं शक्तो बन्धनात्त्वां न संशयः ॥ ३१ ॥ एवमुक्ते ततो हासं बलिः कृत्वेदमब्रवीत् । श्रूयतामभिः- धास्यामि यं त्वं पृच्छसि रावण ॥ ३२ ॥ य एष पुरुष: श्यामो द्वारि तिष्ठति नित्यदा | एतेन दानवेन्द्राश्च तथान्ये बलवत्तराः ॥ ३३॥ वशं नीता बलवता पूर्वे पूर्वतराश्च ये| बद्धश्चाहमनेनैवं कृतान्तो दुरतिक्रमः ॥ ३४ ॥ क एनं पुरुषो लोके वञ्चयिष्यति रावण | सर्वभूतापहर्ता वै य एष द्वारि तिष्ठति ॥ ३५॥ कर्ता कारयिता चैव धाता च भुवनेश्वरः । न त्वं वेद न चाहं वै भूतभव्यभवत्प्रभुम् ||३६॥ कलिश्चैव हि कालम्ध सर्वभूतापहारकः । लोकत्रयस्य सर्वस्य हर्ता लष्टा तथैव च ॥ ३७ ॥ संहरत्येष भूतानि स्थावराणि चराणि च । पुनश्च सृजते सर्वमनाद्यन्तो महेश्वरः ॥ ३८ ॥ करणं कारणं कर्ता सोऽयं पुरुष सरमः । इष्टं चैव हि दतं च हुतं चैव निशाचर ॥ ३९ ॥ सर्वमेव हि लोकेशो धाता भुवनत्रये ||४०|| अहं त्वं चैव पौलस्त्य ये चान्ये पूर्ववत्तरा: । नेता तेषां महात्मैष पशुं रश- नया यथा ॥ ४१ ॥ वृत्रो वनुः शुकः शुम्भो निशुम्भो दम्भुरेव च । कालनेमिश्च प्राह्लादि- स्तथा वैरोचनो बलिः ॥ ४२ ॥ कालकेयास्तार- काख्यो मुचुकुन्दो बिवर्धनः । हिरण्याक्षो मधुश्चैव कैटभो धूमशम्बरौ ॥४३॥ यमला- र्जुनौ च कंसश्च कैटभो मधुना सह । एते तपन्ति द्योतन्ति बान्ति वर्षन्ति चैव हि ॥४४॥ सर्वैः ऋतुशतैरिष्टं सर्वैस्तप्तं महत्तपः । सर्वे ते सुमहात्मानः सर्वे वै योगधर्मिणः ॥४५५॥ सर्वे- रैश्चर्यमासाद्य भुक्तभोगैर्महत्तरैः । दत्तमिष्टमधीतं च प्रजाश्च परिपालिताः ॥४६॥ स्वपक्षेष्वनुगो- तारः प्रहर्तारः परष्वपि । सामरेष्वपि लोकेश नैतेषां विद्यते समः ॥ ४७ ॥ शूरास्त्वभिज- नोपेताः सर्वशस्त्रास्त्रपारगाः । सर्वविद्याप्रवेत्तारः संग्रामेष्वनिवर्तकाः ॥ ४८ ॥ सर्वैखिदश- राज्यानि काङ्क्षितानि महात्मभिः । युद्धे सुरगणाः सर्वे निर्जिताश्च सहस्रशः ॥ ४९ ॥ देवानामपि ये शक्ताः स्वपक्षपरिपालकाः । प्रमत्ता भोगरक्ताश्च बालार्कसमतेजसः ॥५०॥ यत् स देवान् प्रघर्षेत तदेषो विष्णुरीश्वरः । उपायपूर्वकं नाशं संवेचा भगवान् हरिः ॥५१॥ प्रादुर्भावं विकुरुते येनैतनिधनं नयेत् । पुनरेवा- त्मनात्मानमधिष्ठाय स तिष्ठति ॥ ५२ ॥ एव- मेतेन देवेन दानवेन्द्रा महात्मना । ते हि सर्वे क्षयं नीता बलिना कामरूपिणा ॥ ५३ ॥ समरे च दुराधर्षा नृपास्ते च पराजिताः । तेन नीताः क्षयं सर्वे कृतान्तबलचोदिताः ॥ ५४ ॥ एवमुक्त्वाथ प्रोवाच राक्षसं दानवेश्वरः । गोप्सा न संशयः। नैवंविधं महद्भुतं विद्यते यदेतद्हश्यते वीर चक्रं दीप्तानलोपमम् ||५५|| 122